611

तेषु दृष्टं यथा—

‘सरसिजमनुविद्धं शैवलेनापि रम्यं मलिनमपि हिमांशोर्लक्ष्म लक्ष्मीं तनोति ।
इयमधिकमनोज्ञा वल्कलेनापि तन्वी किमिव हि मधुराणां 632मण्डनं नाकृतीनाम् ॥ १२२ ॥’

श्रुतं यथा—

‘किं रूपं स्फुटमेव सा शशिमुखी धत्ते तदत्यद्भुतं मामुत्साहयितुं परापकरणे चित्तं किमस्मत्स्वसुः ।
इत्यन्तर्विकसद्वितर्कविधुरं चेतस्तथा वर्तते स्वल्पोऽप्येष मम प्रयाति पुरतः पन्था यथा दीर्घताम् १२३’

अनुमानं यथा—

‘शान्तमिदमाश्रमपदं स्फुरति च बाहुः कुतः फलमिहास्य ।
अथवा भवितव्यानां द्वाराणि भवन्ति सर्वत्र ॥ १२४ ॥’

संस्कारस्त्रिधा—आदृतः, पटुः, अभ्यस्तश्चेति633 । तत्राश्रयगुणेनादरप्रत्ययादुत्पन्न634 आदृतो यथा—

‘कन्यारत्नमयोनिजन्म भवतामास्ते वयं चार्थिनो रत्नं यत्क्वचिदस्ति635 तत्परिणमत्यस्मासु शक्रादपि ।
कन्यायाश्च परार्थतैव हि मता तस्याः प्रदानादहं बन्धुर्वो भविता पुलस्त्यपुलहप्रष्ठाश्च संबन्धिनः ॥ १२५ ॥’

विषयगुणेन पटुप्रत्ययादुत्पन्नः पटुर्यथा—

‘उत्पत्तिर्देवयजनाद्ब्रह्मवादी नृपः पिता ।
सुप्रसन्नोज्ज्वला मूर्तिरस्याः636 स्नेहं करोति मे ॥ १२६ ॥’
  1. ‘मण्डनेन’ ग
  2. ‘इति’ इत्यधिकं ख
  3. ‘आदरादुत्पन्न’ क ख
  4. ‘चेत्क्वचिदस्ति’ मुद्रितमहावीरचरिते
  5. ‘मूर्तिरस्यां स्नेह’ मुद्रितमहावीरचरिते