612

ज्ञानपौनः637पुन्येनाभ्यासप्रत्ययादुत्पन्नोऽभ्यस्तः ॥

स यथा—

‘भूयो भूयः सविधनगरीरथ्यया पर्यटन्तं दृष्ट्वा दृष्ट्वा भवनवलभीतुङ्गवातायनस्था ।
साक्षात्कामं नवमिव रतिर्मालती माधवं यद्गाढोत्कण्ठालुलितलुलितैरङ्गकैस्ताम्यतीति ॥ १२७ ॥’

अत्र यद्यपि विषयगुणात् पटुः, आश्रयगुणादाहतोऽपि638 प्रत्ययः, पटुमाहतं च639 संस्कारं 640प्रसूते तथाप्यभ्यासात्पटीयानाहततमश्च जायमानोऽभ्यस्त इत्युच्यते ॥

उद्दीपनविभावेषु माल्यवस्त्रविभूषणादयो माल्यादयः ॥

तेषु माल्यं यथा—

‘अशोकनिर्भर्त्सितपद्मरागमाकृष्टहेमद्युतिकर्णिकारम्641
मुक्ताकलापीकृतसिन्धुवारं वसन्तपुष्पाभरणं वहन्ती ॥ १२८ ॥’

वस्त्रं यथा—

‘आवर्जिता किंचिदिव स्तनाभ्यां वासो वसाना तरुणार्करागम् ।
सुजातपुष्पस्तबकावनम्रा642 संचारिणी पल्लविनी लतेव ॥ १२९ ॥’

विभूषणं यथा—

‘कण्ठस्य तस्याः स्तनबन्धुरस्य मुक्ताकलापस्य च 643निस्तलस्य ।
अन्योन्यशोभाजननाद्बभूव साधारणो भूषणभूष्यभावः १३०’

644ऋतुवयोमदादय ऋत्वादयः ।

  1. ‘पौनःपुन्येन’ ग घ
  2. ‘च्चादृतोऽपि’ क ख
  3. ‘च’ क ख नास्ति
  4. ‘प्रसूयते’ क ख
  5. ‘कर्निकारम्’ ख
  6. ‘स्तवकावनन्रसंचारिणी’ क
  7. ‘निस्तुलस्य’ क
  8. ‘ऋतुर्वयोमदादयः’ क ख