612
ज्ञानपौनः637पुन्येनाभ्यासप्रत्ययादुत्पन्नोऽभ्यस्तः ॥
स यथा—
‘भूयो भूयः सविधनगरीरथ्यया पर्यटन्तं
दृष्ट्वा दृष्ट्वा भवनवलभीतुङ्गवातायनस्था ।
साक्षात्कामं नवमिव रतिर्मालती माधवं
यद्गाढोत्कण्ठालुलितलुलितैरङ्गकैस्ताम्यतीति ॥ १२७ ॥’
अत्र यद्यपि विषयगुणात् पटुः, आश्रयगुणादाहतोऽपि638 प्रत्ययः, पटुमाहतं च639 संस्कारं 640प्रसूते तथाप्यभ्यासात्पटीयानाहततमश्च जायमानोऽभ्यस्त इत्युच्यते ॥
उद्दीपनविभावेषु माल्यवस्त्रविभूषणादयो माल्यादयः ॥
तेषु माल्यं यथा—
‘अशोकनिर्भर्त्सितपद्मरागमाकृष्टहेमद्युतिकर्णिकारम्641 ।
मुक्ताकलापीकृतसिन्धुवारं वसन्तपुष्पाभरणं वहन्ती ॥ १२८ ॥’
वस्त्रं यथा—
‘आवर्जिता किंचिदिव स्तनाभ्यां वासो वसाना तरुणार्करागम् ।
सुजातपुष्पस्तबकावनम्रा642 संचारिणी पल्लविनी लतेव ॥ १२९ ॥’
विभूषणं यथा—
‘कण्ठस्य तस्याः स्तनबन्धुरस्य मुक्ताकलापस्य च 643निस्तलस्य ।
अन्योन्यशोभाजननाद्बभूव साधारणो भूषणभूष्यभावः १३०’
644ऋतुवयोमदादय ऋत्वादयः ।