613

तेषु ऋतुर्यथा—

‘इदमपुलभवस्तु प्रार्थनादुनिर्वारं प्रथममपि मनो मे पञ्चबाणः क्षिणोति ।
किमुत मलयवातोन्मूलितापाण्डुपत्त्रै- रुपवनसहकारैर्दर्शितेष्वङ्कुरेषु ॥ १३१ ॥’

वयो यथा—

‘मामूमुहत्खलु भवन्तमनन्यजन्मा मा ते मलीमसविकारघना मतिर्भूत् ।
इत्यादि नन्विह निरर्थकमेव यस्मा- त्कामश्च जृम्भितगुणो नवयौवनं च ॥ १३२ ॥’

मदो यथा—

‘तत्क्षणं विपरिवर्तितह्रियोर्नेष्यतोः645 शयनमिद्धरागयोः ।
सा बभूव वशवर्तिनी 646द्वयोः शूलिनः सुवदना मदस्य च १३३’

चन्दनस्नानधूपादयश्चन्दनादयः ।

तेषु चन्दनं यथा—

‘चन्दनं विषधराश्रयः शशी वारुणी च विषसोदरावुभौ ।
तापयन्ति विरहे किमुच्यते मारयन्ति न यदेतदद्भुतम् १३४’

स्नानं यथा—

‘आअम्बलोअणाणं 647ओल्लंसुअपा648अडोरुजहणाणं ।
649अवरण्हमज्जिरीणं कए ण कामो 650धणुं वहइ ॥ १३५ ॥’
[आताम्रलोचनानामार्द्रांशुकप्रकटोरुजघनानाम् ।
अपराह्णमज्जनशीलानां कृते न कामो धनुर्वहति ॥]
  1. ‘नेक्षतोः’ घ
  2. ‘तयोः’ क ख
  3. ‘उल्लु तुअ’ क, ‘उत्तुंसुअ’ ख
  4. ‘पअडोरुजहणा’ क
  5. ‘अवरुह्ण’ क ख
  6. ‘वहइ चावं’ इति काव्यमालामुद्रितगाथासप्तशत्याम्, क ख च