613
तेषु ऋतुर्यथा—
‘इदमपुलभवस्तु प्रार्थनादुनिर्वारं
प्रथममपि मनो मे पञ्चबाणः क्षिणोति ।
किमुत मलयवातोन्मूलितापाण्डुपत्त्रै-
रुपवनसहकारैर्दर्शितेष्वङ्कुरेषु ॥ १३१ ॥’
वयो यथा—
‘मामूमुहत्खलु भवन्तमनन्यजन्मा
मा ते मलीमसविकारघना मतिर्भूत् ।
इत्यादि नन्विह निरर्थकमेव यस्मा-
त्कामश्च जृम्भितगुणो नवयौवनं च ॥ १३२ ॥’
मदो यथा—
चन्दनस्नानधूपादयश्चन्दनादयः ।
तेषु चन्दनं यथा—
‘चन्दनं विषधराश्रयः शशी वारुणी च विषसोदरावुभौ ।
तापयन्ति विरहे किमुच्यते मारयन्ति न यदेतदद्भुतम् १३४’
स्नानं यथा—
[आताम्रलोचनानामार्द्रांशुकप्रकटोरुजघनानाम् ।
अपराह्णमज्जनशीलानां कृते न कामो धनुर्वहति ॥]