614

धूपो यथा—

‘स्नानार्द्रमुक्तेष्व651नुधूपवासं विन्यस्तसायन्तनमल्लिकेषु ।
कामो 652वसन्तात्ययमन्दवीर्यः केशेषु लेभे बलमङ्गनानाम् १३६’

चन्द्रोदयो घनध्वनिरुपकारस्मरणमित्याद्याश्चन्द्रोदयादयः ।

तेषु चन्द्रोदयो यथा—

653विलिम्पत्येतस्मिन्मलयजरसार्द्रेण654 महसा दिशां वक्त्रं चन्द्रे सुकृतमथ तस्या मृगदृशः ।
दृशोर्बाष्पः पाणौ वदनमसवः कण्ठकुहरे हृदि त्वं ह्रीः पृष्ठे वचसि च गुणा एव भवतः ॥ १३७’

घनध्वनिर्यथा—

‘अज्ज मए तेण विणा 655अणुहूअसुहाइँ संमरंतीए ।
656अहिणवमेहाणँ रवो णिसामिओ 657वज्झपडहो व्व ॥ १३८ ॥’
[अद्य मया तेन विनानुभूतसुखानि संस्मरन्त्या ।
अभिनवमेघानां रवो निशामितो वध्यपटह इव ॥]

उपकारस्मरणं यथा—

‘तन्मे मनः क्षिपति यत्सरसप्रहारमालोक्य मामगणितस्खलदुत्तरीया ।
त्रस्तैक658हायनकुरङ्गविलोलदृष्टिराश्लिष्टवत्यमृतसंवलितैरिवाङ्गैः ॥ १३९ ॥’
  1. ‘शुष्केषु’ घ
  2. ‘वसन्तातप’ ख
  3. ‘विलिम्पन्त्येतस्मिन्’ घ
  4. ‘मलयरजसाद्रेंण’ क ख
  5. ‘अणुभूअसुहाइं अणिसंभरन्तीए’ क ख
  6. ‘अहिणवमोहणरवो’ ख
  7. ‘वज्जपडहोव्व’ घ
  8. ‘हायण’ ख