615
अनुभावेषु 659स्मरति यथा—
[क्षणमात्रमपि नापगच्छत्यनुदिवसं दत्तगुरुकसंतापा ।
प्रच्छन्नपापशङ्केव श्यामलाङ्गी मम हृदयात् ॥]
वाञ्छति664 यथा—
[एवमेवाकृतपुण्याप्राप्तमनोरथा विपत्स्ये ।
जनवादोऽपि न जातस्तेन समं हलिकपुत्रेण ॥]
द्वेष्टि667 यथा—
[गोत्रस्खलनं श्रुत्वा प्रियतमेऽद्य सखि 671क्षणदिवसे ।
वध्यमहिषस्य मालेव मण्डनमस्या न प्रतिभाति ॥]
प्रयतते यथा—
‘अनुगच्छन्मुनितनयां सहसा विनयेन वारितप्रसरः ।
स्वस्थानादचलन्नपि गत्वेव पुनः प्रतिनिवृत्तः ॥ १४३ ॥’
- ‘स्मरतिर्थथा’ क ख↩
- ‘वि’ घ↩
- ‘अणुदिअहविइण्णगरुअसंतावा’ गाथासप्त॰ ‘दिण्णगुरुअसंतावा’ घ↩
- ‘पच्छण्णपापसंकव्व’ घ, ‘पच्छन्नपावसंकेव्व’ गाथासप्त॰↩
- ‘हिअआओ’ गाथासप्त॰, ‘हिअआहि’ क ख ग↩
- ‘वाञ्छतिर्यथा’ क ख↩
- ‘अकअपुण्णा’ घ↩
- ‘हलिअपुत्तेण’ घ↩
- ‘द्वेष्टिर्यथा’ क ख ↩
- ‘तीअ’ गाथासप्त॰↩
- ‘खणदिअहे’ इति तत्रैव↩
- ‘उअह’ पश्यत इत्यपि च↩
- उत्सवदिवसे↩