616
672अवैति यथा—
‘चन्दसरिसं मुहं से सरिसो अमअस्स मुहरसो तिस्सा ।
सकअग्गहरहसुज्जलचुंबणअं कस्स सरिसं से ॥ १४४ ॥’
[चन्द्रसदृशं मुखमस्याः सदृशोऽमृतस्य मुखरसस्तस्याः ।
सकचग्रहरभसोज्ज्वलचुम्बनकं कस्य सदृशमस्याः ॥]
मन्यते यथा—
[परिवर्तमानेव(?) निशाम्यते मण्डलितकुसुमायुधमिवानङ्गम् ।
विरहे मन्यते हारिनखे अनर्थप्रत्युत्थितमिव मृगाङ्कम् ॥]
वक्ति यथा—
‘आलाओ मा दिज्जउ लोअविरुद्धत्ति णाम काऊण ।
समुहावडिए को वेरिए वि दिट्ठिं ण पाडेइ ॥ १४६ ॥’
[आलापो मा दीयतां लोकविरुद्ध इति नाम कृत्वा ।
संमुखापतिते को वैरिण्यपि दृप्टिं न पातयति ॥]
चेष्टते यथा—
‘अज्ज मए गंतव्वं घणंधआरे वि तस्स सुहअस्स ।
अज्जा णिमीलिअच्छी पअपरिवाडिं घरे कुणइ ॥ १४७ ॥’
[अद्य मया गन्तव्यं घनान्धकारेऽपि तस्य सुभगस्य ।
आर्या निमीलिताक्षी पदपरिपाटीं गृहे करोति ॥]