617
संचारिषु स्वेदरोमाञ्चवेपथवो यथा—
[दृष्टे यत्पुलकायसे थरहरायसे प्रिये यत्समासन्ने ।
तव संभाषणस्वेदार्द्रीकृतस्पर्शे किमपि नीयसे ॥]
अश्रु यथा—
[नयनाभ्यन्तरघूर्णमानबाष्पभरमन्थरया दृष्टया ।
पुनरुक्तप्रेक्षणशीलया बालक किं यन्न भणितोऽसि ॥]
हर्षो यथा—
‘सव्वस्सम्मि विदद्धे(ड्ढे)681 तह वि हु हिअअस्स णिव्वुदि च्चेअ ।
जं तेण गामडाहे हत्थाहत्थिं कुडो गहिओ ॥ १५० ॥’
[सर्वस्वेऽपि दग्धे तथापि खलु हृदयस्य निर्वृतिरेव ।
यत्तेन ग्रामदाहे हस्ताहस्ति कुण्डो गृहीतः ॥]
अमर्षो यथा—
[कुतः संपतति ममापि प्रियसखि प्रियसंगमः प्रदोषेऽपि ।
यज्जीवति गृहीतकरनिकरखिंखिरी चन्द्रचण्डालः ॥]