560
स्त्रीपुंसयोर्विप्रलम्भे 289वैचित्त्याकल्पनादयः ।
चेष्टाविशेषाः संभोगे चुम्बनालिङ्गनादयः ॥ ५३ ॥
विप्रलम्भेऽभियोगाद्यैः संभोगे साध्वसादिभिः ।
मिथःपरीक्षा याः290 प्रेम्णो निर्दिष्टास्ताः परीष्टयः ॥ ५४ ॥
विप्रलम्भादिशब्दानां लोकसिद्धेषु वस्तुषु ।
प्रकृत्यादिविभागेन विनिवेशा निरुक्तयः ॥ ५५ ॥
संश्रृत्य विप्रलम्भार्थान्गृधिवञ्च्योः प्रलम्भने ।
इत्यादिज्ञापकाज्ज्ञेयः प्रपूर्वो वञ्चने लभिः ॥ ५६ ॥
आदानं च प्रतिश्रुत्य विसंवादनमेव च ।
कालस्य हरणं चाहुः प्रत्यादानं च वञ्चनम् ॥ ५७ ॥
पूर्वानुरागपूर्वेषु विप्रलम्भेषु तत्क्रमात् ।
विशेषद्योतकेनेह व्युपसर्गेण सूच्यते ॥ ५८ ॥
प्रतिश्रवो हि पूर्वानुरागे291 वक्रेक्षितादिभिः ।
अभीष्टालिङ्गनादीनामदानं292 ह्रीभयादिभिः ॥ ५९ ॥
माने निवारणं तेषां293 विसंवादनमुच्यते ।
अयथावत्प्रदानं वा व्यलीकस्मरणादिभिः ॥ ६० ॥
प्रवासे कालहरणं व्यक्तमेषां प्रतीयते ।
प्रोष्यागतेष्विहैतानि कान्ताः कान्तेषु युञ्जते ॥ ६१ ॥
प्रत्यादानं पुनस्तेषां करुणे294 को न मन्यते ।
स्वयं दत्तानि हि विधिस्तानि तत्रापकर्षति ॥ ६२ ॥
  1. ‘वैचिन्त्याकल्पकादयः’ ग
  2. ‘परीक्षा या प्रेम्णो’ घ
  3. ‘पूर्वानुरागवक्रेक्षितादिभिः’ क
  4. ‘मादानं’ क ख
  5. अभीष्टालिङ्गनादीनाम्
  6. ‘कारुणे’ ग