618

लीलादिषु प्रियजनचेष्टानुकृतिलींला यथा—

‘जं जं करेसि जं जं जप्पसि जं686 जं णिअच्छेसि ।
तं तमणुसिक्खरीए687 दीहो दिअहो ण संपडइ ॥ १५२ ॥’
[यद्यत्करोषि यद्यज्जल्पसि यद्यन्निरीक्षसे ।
तत्तदनुशिक्षणशीलाया दीर्घो दिवसो न संपद्यते ॥]

नेत्रभ्रूवक्त्रकर्मणां विशेषणे लसनं विलासो यथा—

‘सभ्रूविलासमथ सोऽयमितीरयित्वा सप्रत्यभिज्ञमिव मामवलोक्य तस्याः ।
अन्योन्यभावचतुरेण सखीजनेन मुक्तास्तदा स्मितसुधामधुराः कटाक्षाः ॥ १५३ ॥’

विभूषणादीनामनादरविन्यासो विच्छित्तिर्यथा—

‘अङ्गानि चन्दनरजःपरिधूसराणि ताम्बूलरागसुलभोऽधरपल्लवश्च ।
अच्छाञ्जने च नयने वसनं तनीयः कान्तासु भूषणमिदं विभवश्च शेषः ॥ १५४ ॥’

विभूषणादीनामस्थानप्रयोगो विभ्रमो यथा—

‘चकार काचित्सितचन्दनाङ्के काञ्चीकलापं स्तनभारपृष्ठे ।
प्रियं प्रति प्रेषितचित्तवृत्ति- र्नितम्बबिम्बे च 688बभार हारम् ॥ १५५ ॥’
  1. ‘जह तुम’ काव्यमालामुद्रितगाथासप्त॰
  2. ‘शिक्खिरीए’ ख, ‘सिक्खिरीए’ इत्यपि गाथासप्त॰
  3. ‘बबन्ध’ ग घ