619
स्मितरुदितहसितादीनां हर्षादसकृदेकीकरणं किलकिञ्चितं यथा—
‘पाणिपल्लवविधूननमन्तःसीत्कृतानि 689नयनार्धनिमेषाः ।
योषितां रहसि गद्गदवाचामस्त्रतामुपययुर्मदनस्य ॥ १५६ ॥’
दृष्टजनकथायां तद्भावभावनोत्थितविकारो मोट्टायितं यथा—
‘तव सा कथासु परिघट्टयति श्रवणं यदङ्गुलिमुखेन मुहुः ।
घनतां ध्रुवं नयति तेन भवद्गुणपूगपूरितमतृप्ततया ॥ १५७ ॥’
केशस्तनाधरादिग्रहणाद्दुःखेऽपि सुखबुद्धिचेष्टा कुट्टमितं यथा—
‘ह्नीभरादवनतं परिरम्भे रागवानवटुजेष्ववकृष्य ।
अर्पितोष्ठदलमाननपद्मं योषितो मुकुलिताक्षमधासीत् ॥ १५८ ॥’
अभीष्टप्राप्तावभिमानगर्वसंभावनानादरकृतो विंकारो 690विव्वोको यथा—
‘निर्विभुज्य दशनच्छदं ततो वाचि भर्तुरवधीरणापरा ।
शैलराजतनया समीपगामाललाप विजयामहेतुकम् ॥ १५९ ॥’
सुकुमारतया करचरणाङ्गन्यासो ललितं यथा—
वक्तव्यसमयेऽपि वचसाभिभाष्य क्रियानुष्ठानं विहृतं यथा—
‘पत्युः शिरश्चन्द्रकलामनेन स्पृशेति सख्या परिहासपूर्वम् ।
सा रञ्जयित्वा चरणौ कृताशीर्माल्येन तां निर्वचनं जघान ॥ १६१ ॥’
बाल्यकौमारयौवनसाधारणो विहारविशेषः क्रीडितं यथा—
‘मन्दाकिनीसैकतवेदिकाभिः
सा कन्दुकैः कृत्रिमपुत्रकैश्च ।