620
रेमे मुहुर्मध्यगता सखीनां क्रीडारसं निर्विशतीव बाल्ये ॥ १६२ ॥’

क्रीडितमेव 693प्रियतमविषये केलिर्यथा—

‘व्यपोहितं लोचनतो मुखानिलै- रपारयन्तं किल पुष्पजं रजः ।
पयोधरेणोरसि काचिदुन्मनाः प्रियं जघानोन्नतपीवरस्तनी ॥ १६३ ॥’

हेलादिषु रागतः सहसा प्रवृत्तिहेतुश्चित्तोल्लासो हेला । सा स्त्रियां यथा—

‘रेहइ पिअपरिरम्भणपसारिअं सुरअमंदिरद्दारे ।
694हेलाहलहलिअथोरथणहरं भुअलआजुअलं ॥ १६४ ॥’
[राजते प्रियपरिरम्भणप्रसारितं सुरतमन्दिरद्वारे ।
वेगकौतुकितस्थूलस्तनभरं भुजलतायुगलम् ॥]

सैव पुरुषे यथा—

‘उत्तिष्ठन्त्या रतान्ते भरमुरगपतौ पाणिनैकेन कृत्वा धृत्वा चान्येन वासो विगलितकवरीभारमंसे वहन्त्याः ।
भूयस्तत्कालकान्तिद्विगुणितसुरतप्रीतिना शौरिणा वः शय्यामालिङ्ग्य नीतं वपुरलसलसद्बाहु लक्ष्म्याः पुनातु ॥ १६५ ॥’

हेलैव सवचनविन्यासो हावः । स स्त्रियां यथा—

‘जइ ण छिवसि पुप्फवइं पुरओ ता कीस695 वारिओ ठासि ।
छित्तोसि चुलुचुलन्तेहिँ 696पहाविऊण मह हत्थेहिं ॥ १६६ ॥’
[यदि न स्पृशसि पुष्पवतीं पुरतस्तत्किं वारितस्तिष्ठसि ।
स्पृष्टोऽसि चुलुचुलायमानैः धावित्वास्माकं हस्ताभ्याम् ॥]
  1. ‘प्रियतमविषयं’ घ
  2. ‘जवे हेला’ देशीनाममाला, ‘तुमुतम्मि कोउए हलहल’ इत्यपि
  3. ‘की सो’ ख
  4. ‘धाविउण अम्ह’ इति मुद्रितगाथासप्त॰, ‘पहाविऊणाम्भहत्थेहिं’ ग घ