620
रेमे मुहुर्मध्यगता सखीनां
क्रीडारसं निर्विशतीव बाल्ये ॥ १६२ ॥’
क्रीडितमेव 693प्रियतमविषये केलिर्यथा—
‘व्यपोहितं लोचनतो मुखानिलै-
रपारयन्तं किल पुष्पजं रजः ।
पयोधरेणोरसि काचिदुन्मनाः
प्रियं जघानोन्नतपीवरस्तनी ॥ १६३ ॥’
हेलादिषु रागतः सहसा प्रवृत्तिहेतुश्चित्तोल्लासो हेला । सा स्त्रियां यथा—
‘रेहइ पिअपरिरम्भणपसारिअं सुरअमंदिरद्दारे ।
694हेलाहलहलिअथोरथणहरं भुअलआजुअलं ॥ १६४ ॥’
[राजते प्रियपरिरम्भणप्रसारितं सुरतमन्दिरद्वारे ।
वेगकौतुकितस्थूलस्तनभरं भुजलतायुगलम् ॥]
सैव पुरुषे यथा—
‘उत्तिष्ठन्त्या रतान्ते भरमुरगपतौ पाणिनैकेन कृत्वा
धृत्वा चान्येन वासो विगलितकवरीभारमंसे वहन्त्याः ।
भूयस्तत्कालकान्तिद्विगुणितसुरतप्रीतिना शौरिणा वः
शय्यामालिङ्ग्य नीतं वपुरलसलसद्बाहु लक्ष्म्याः पुनातु ॥ १६५ ॥’
हेलैव सवचनविन्यासो हावः । स स्त्रियां यथा—
[यदि न स्पृशसि पुष्पवतीं पुरतस्तत्किं वारितस्तिष्ठसि ।
स्पृष्टोऽसि चुलुचुलायमानैः धावित्वास्माकं हस्ताभ्याम् ॥]