561
295प्रलम्भेत्यत्र यदि वा वञ्चनामात्रवाचिनि ।
विना 296समासे चतुराश्चतुरोऽर्थान्नियुञ्जते297 ॥ ६३ ॥
विविधश्च विरुद्धश्च व्याविद्धश्च क्रमेण सः ।
विनिषिद्धश्च पूर्वानुरागादिषु298 विषज्यते ॥ ६४ ॥
पूर्वानुरागे विविधं वञ्चनं व्रीडितादिभिः ।
माने विरुद्धं तत्प्राहुः पुनरीर्ष्यायितादिभिः ॥ ६५ ॥
व्याविद्धं दीर्घकालत्वात्प्रवासे तत्प्रतीयते299
विनिषिद्धं तु करुणे300 करुणत्वेन गीयते ॥ ६६ ॥
रागोऽनु सह पश्चाद्वानुरूपोऽनुगतोऽपि वा ।
यूनोरपूर्वः पूर्वानुरागशब्देन शब्द्यते ॥ ६७ ॥
राजते रञ्चतेर्वापि रागः 301करणभावयोः ।
302घञान्यत्कारके भावे नलोपेन नियम्यते ॥ ६८ ॥
मान्यते प्रेयसा येन यं प्रियत्वेन मन्यते ।
मनुते वा मिमीते वा प्रेममानः स कथ्यते ॥ ६९ ॥
महाभाष्यकृतः कोऽसावनुमान इति स्मृतेः ।
ल्युडन्तोऽपि न पुंलिङ्गो मानशव्दः प्रदुष्यति ॥ ७० ॥
यत्राङ्गना युवानश्च वसते न वसन्ति च ।
स प्रवासः प्रशब्देन प्रतीपार्थेन कथ्यते ॥ ७१ ॥
303चितोत्कण्ठादिभिश्चेतो भृशं वासयतीह यः ।
प्रवासयति वा यूनः स प्रवासो निरुच्यते ॥ ७२ ॥
  1. ‘प्रलभेत्यत्र’ घ
  2. विशब्देन
  3. ‘न्प्रयुञ्जते’ ख
  4. पूर्वानुरागप्रवासकरुणाख्येषु
  5. वञ्चनम्
  6. ‘करुणः’ ख , ‘किरणे’ ग
  7. ‘करुणभावयोः’ ख
  8. ‘घञापि करणे भावे’ घ, ‘घञान्यकारके भावे’ क
  9. ‘चिन्तोत्कण्ठादिभिश्चेतो’ क ख