622
चाटु स्त्रीपुंसयोर्यथा—
‘एक्कं 703पहरुव्विण्णं हत्थं मुहमारुण्णं एण वीअंतो ।
सो वि हसंतीएॅ मए गहिओ वीएण कंठम्मि ॥ १७१ ॥’
[एकं प्रहारोद्विग्नं हस्तं मुखमारुतेन बीजयन् ।
सोऽपि हसन्त्या मया गृहीतो द्वितीयेन कण्ठे ॥]
प्रेमाभिसंधानं पुंसो यथा—
‘केलीगोत्तक्खलणे वरस्स पप्फुल्लइं दिहिं देहि ।
बहुवासअवासहरे बहुए वाहोल्लिआ दिट्ठी ॥ १७२ ॥’
[केलीगोत्रस्खलने वरस्य प्रफुल्लां धृतिं दधाति ।
बहुवासकवासगृहे वध्वा बाष्पार्दिता दृष्टिः ॥]
परिहासः स्त्रियां(या) यथा—
[अयि देवर किं न प्रेक्षस आकाशं किं मुधा प्रलोकयसि ।
जायाया बाहुमूलेऽर्धचन्द्राणां परिपाटीम् ॥]
कुतूहलं पुंसो यथा—
[असमाप्तमण्डनैव व्रज गृहं तस्य सकौतूहलस्य ।
व्यतिक्रान्तौत्सुक्यस्य पुत्रि चित्ते न लगिष्यसि ॥]