622

चाटु स्त्रीपुंसयोर्यथा—

‘एक्कं 703पहरुव्विण्णं हत्थं मुहमारुण्णं एण वीअंतो ।
सो वि हसंतीएॅ मए गहिओ वीएण कंठम्मि ॥ १७१ ॥’
[एकं प्रहारोद्विग्नं हस्तं मुखमारुतेन बीजयन् ।
सोऽपि हसन्त्या मया गृहीतो द्वितीयेन कण्ठे ॥]

प्रेमाभिसंधानं पुंसो यथा—

‘केलीगोत्तक्खलणे वरस्स पप्फुल्लइं दिहिं देहि ।
बहुवासअवासहरे बहुए वाहोल्लिआ दिट्ठी ॥ १७२ ॥’
[केलीगोत्रस्खलने वरस्य प्रफुल्लां धृतिं दधाति ।
बहुवासकवासगृहे वध्वा बाष्पार्दिता दृष्टिः ॥]

परिहासः स्त्रियां(या) यथा—

‘अइ दिअर किं ण 704पेच्छसि आआसं किं मुहा पलोएसि ।
जाआइ बाहुमूलं मि 705अद्धअन्दाणँ पडिवाडिं ॥ १७३ ॥’
[अयि देवर किं न प्रेक्षस आकाशं किं मुधा प्रलोकयसि ।
जायाया बाहुमूलेऽर्धचन्द्राणां परिपाटीम् ॥]

कुतूहलं पुंसो यथा—

‘असमत्तमंडणच्चिअ706 वच्च घरं से सकोउहल्लस्स ।
707बोलाविअहलहलस्सअ[अस्स]पुत्ति चित्ते ण 708लग्गिहिसि ॥’
[असमाप्तमण्डनैव व्रज गृहं तस्य सकौतूहलस्य ।
व्यतिक्रान्तौत्सुक्यस्य पुत्रि चित्ते न लगिष्यसि ॥]
  1. ‘रुव्वाणं’ क
  2. ‘दिच्छी’ ग घ
  3. ‘अद्धअन्दाण’ क ख ग
  4. ‘असमत्तमडणा विअ’ मुद्रितगाथासप्त॰, ‘मंडणं विअ’ क
  5. ‘कोउए हलहलहलम्’ देशी नाममाला, गाथासप्तशत्यनुसारं च ‘हलहलअस्य’ पाठः । ‘हलहलकं कामौत्सुक्यमिति देशी’ कुलबालदेवः । अत्र द्रष्टव्या श्रीपितृचरणानां टिप्पणी
  6. ‘लग्गिहसि’ क