तत्र नायकयोः प्रागसंगतयोः, संगतयोश्च, संगतवियुक्तयोर्वा, मिथोदर्शनश्रवणाभ्यामवस्थिताभिमानजन्मा परस्परानुरागोऽन्यतरानुरागो वाभिलषणीयालिङ्गनादीनामनवाप्तौ सत्यां समुपजायमानैस्तैस्तैरुत्कण्ठादिभिर्व्यभिचारिभावैर्मनोवाग्बुद्धिशरीरारम्भजन्मभिश्चानुभावैरनुबद्धः प्राप्तप्राप्यप्रकर्षावस्थो विप्रलम्भश्रृङ्गाराख्यां लभते । स चतुर्धा—पूर्वानुरागो, मानः, प्रवासः, करुणश्च ॥