623

चकितं स्त्रिया यथा—

709णवलइ पहारतुठ्ठाइ710 तं कअं किं पि हलिअसोण्हाए ।
जं अज्ज वि जुअइजणो घरे घरे सिक्खिउं भमइ ॥ १७५ ॥’
[पतिनामप्रश्नपूर्वकप्रहारतुष्टया तत्कृतं किमपि हालिकस्नुषया ।
यदद्यापि युवतिजनो गृहे गृहे शिक्षितुं भ्रमति ॥]
हेला 711हावश्च भावश्च व्याजो विस्रम्भभाषणम् ।
चाटु प्रेमाभिसंधानं परिहासः कुतूहलम् ॥ १६८ ॥
चकितं चेति निर्दिष्टाश्चेष्टाः काश्चिद्विलासिनाम् ।
शेषाणां विप्रलम्भादौ रूपमाविर्भविष्यति ॥ १६९ ॥

तत्र नायकयोः प्रागसंगतयोः, संगतयोश्च, संगतवियुक्तयोर्वा, मिथोदर्शनश्रवणाभ्यामवस्थिताभिमानजन्मा परस्परानुरागोऽन्यतरानुरागो वाभिलषणीयालिङ्गनादीनामनवाप्तौ सत्यां समुपजायमानैस्तैस्तैरुत्कण्ठादिभिर्व्यभिचारिभावैर्मनोवाग्बुद्धिशरीरारम्भजन्मभिश्चानुभावैरनुबद्धः प्राप्तप्राप्यप्रकर्षावस्थो विप्रलम्भश्रृङ्गाराख्यां लभते । स चतुर्धा—पूर्वानुरागो, मानः, प्रवासः, करुणश्च ॥

तेषु प्रागसंगतयोः पूर्वानुरागः पुरुषप्रकाण्डे यथा—

‘दूरं मुक्तालतया बिससितया विप्रलोभ्यमानो मे ।
हंस इव दर्शिताशो मानसजन्मा त्वया नीतः ॥ १७६ ॥’

अत्र पुण्डरीकस्य महाश्वेतायां प्रागसंगतायां समुत्पन्नः संकल्परमणीयोऽभिलाषस्तदनाप्तावुक्तप्रकारेण प्रकृष्यमाणस्त्वया मे 712मानसजन्मा दूरं नीत इत्युत्तरकामावस्थया प्रकाश्यते ॥

  1. ‘णवलइआपाहरं’ क दोलाविलाससमये 'जत्थ पलासलयाए जणेहि पइणाम पुच्छिआ जुवई । अकहन्ती णिहणिज्जइ णिअमविसेसो णवलया सा ॥’ देशीनाममाला
  2. ‘तुट्ठाए’ क ख
  3. ‘भावश्च हावश्च’ ख
  4. ‘स’ ख