624

स एव स्त्रीप्रकाण्डे यथा—

‘दुल्लहजणानुराओ लज्जा गरुई परवसो अप्पा ।
पिअसहि विसमं पेम्मं मरणं सरणं 713णवरि एक्कं ॥ १७७ ॥’
[दुर्लभजनानुरागो लज्जा गुर्वी परवश आत्मा ।
प्रियसखि विषमं प्रेम मरणं शरणमनन्तरमेकम् ॥]

अत्रापि प्राग्वदेव सागरिकाया वत्सराजेऽनुरागः प्रकृष्यमाणो मरणं शरणमित्युत्तरयैव कामावस्थया कथ्यते ॥

संगतयोर्मानः स निर्हेतुर्यथा—

‘अत्थक्करूसणं714 खणपसिज्जणं अलिअवअणणिब्बन्धो ।
715उम्मच्छरसंतावो पुत्तअ पअवी सिणेहस्स ॥ १७८ ॥’
[अकस्माद्रोषणं क्षणप्रसादनमलीकवचननिर्बन्धः ।
उन्मत्सरसंतापः पुत्रक पदवी स्नेहस्य ॥]

अत्र प्रेमगतेः स्वभावकौटिल्याद्धेतुमन्तरेणोपजायमानो निर्हेतुरुच्यते स एव सहेतुर्यथा—

716पडिउच्छिआ ण जंपइ गहिआ वि प्फुरइ चुम्बिआ रुसइ ।
तुण्हिंका717 णवबहुआ 718कआवराहेण दइएण ॥ १७९ ॥’
[परिपृष्टा न जल्पति गृहीतापि स्फुरति चुम्विता रुष्यति ।
तूष्णींभूता नववधूका कृतापराधेन दयितेन ॥]

अत्र यद्यप्यालिङ्गनादेर्नेति नेत्यादेः प्रतिषेधो न विद्यते तथापि तदर्थोऽस्त्येवेति मानलक्षणं घटते ॥

  1. मुद्रितरत्नावल्यां तु ‘ण वारक्कं’ पाठः, ‘न पारक्यम्’ छाया च । ‘ना अरिणवन्तर्ये’ देशीनाममालायाष्टीकायाम्
  2. अत्थक्केत्याकस्मिकेऽद्भुते वा देशी
  3. उन्मत्सरेति बहुले । ‘उन्मूर्च्छनं प्रतिकूलवाचा प्रकोपनम्’ इति प्राचीनटीका गङ्गाधरभट्टोट्टङ्किता
  4. ‘पडिउत्थिआ’ क ख
  5. ‘तुण्हिंभूआ’ क ख
  6. ‘कआवराएण’ घ