624
स एव स्त्रीप्रकाण्डे यथा—
‘दुल्लहजणानुराओ लज्जा गरुई परवसो अप्पा ।
पिअसहि विसमं पेम्मं मरणं सरणं 713णवरि एक्कं ॥ १७७ ॥’
[दुर्लभजनानुरागो लज्जा गुर्वी परवश आत्मा ।
प्रियसखि विषमं प्रेम मरणं शरणमनन्तरमेकम् ॥]
अत्रापि प्राग्वदेव सागरिकाया वत्सराजेऽनुरागः प्रकृष्यमाणो मरणं शरणमित्युत्तरयैव कामावस्थया कथ्यते ॥
संगतयोर्मानः स निर्हेतुर्यथा—
[अकस्माद्रोषणं क्षणप्रसादनमलीकवचननिर्बन्धः ।
उन्मत्सरसंतापः पुत्रक पदवी स्नेहस्य ॥]
अत्र प्रेमगतेः स्वभावकौटिल्याद्धेतुमन्तरेणोपजायमानो निर्हेतुरुच्यते स एव सहेतुर्यथा—
[परिपृष्टा न जल्पति गृहीतापि स्फुरति चुम्विता रुष्यति ।
तूष्णींभूता नववधूका कृतापराधेन दयितेन ॥]
अत्र यद्यप्यालिङ्गनादेर्नेति नेत्यादेः प्रतिषेधो न विद्यते तथापि तदर्थोऽस्त्येवेति मानलक्षणं घटते ॥