625
संगतवियुक्तयोः प्रवासः । स नवानुरागो यथा—
अत्र विवाहानन्तरमेव मालत्याः कपालकुण्डलयापहारान्माधवमालत्योरयं नवानुरागः प्रवास उच्यते ॥
स एव प्रौढानुरागो यथा—
‘त्वामालिख्य प्रणयकुपितां धातुरागैः
शिलायामात्मानं ते चरणपतितं यावदिच्छामि कर्तुम् ।
अस्रैस्तावन्मुहुरुपचितैर्दृष्टिरालुप्यते मे
क्रूरस्तस्मिन्नपि न सहते संगमं नौ कृतान्तः ॥ १८१ ॥’
अत्र प्राचीनप्रणयप्रसादनाभिरनुरागस्य प्रौढिरवगम्यते ॥
संगतयोरेवान्यतरव्यपाये करुणः । स स्त्रीव्यपाये पुरुषस्य यथा—
‘ध्रुवमस्मि शठः शुचिस्मिते कलितः कैतववत्सलस्त्वया ।
परलोकमसंनिवृत्तये यदनामन्त्र्य721 गतासि मामितः ॥ १८२ ॥’
अत्रेन्दुमतीव्यपायादजस्य दुःखातिशयः करुण उच्यते ॥
स एव पुरुषस्य व्यपाये स्त्रिया यथा—
‘हृदये वससीति मत्प्रियं यदवोचस्तदवैमि कैतवम् ।
उपचारपदं न चेदिदं त्वमनङ्गः कथमक्षता रतिः ॥ १८३ ॥’
अत्रानङ्गविषये रतेः 722शोकप्रकर्षः करुण इत्याख्यायते ॥