625

संगतवियुक्तयोः प्रवासः । स नवानुरागो यथा—

‘प्रियमाधवे किमसि मय्यवत्सला ननु सोऽहमेव यमनन्दयत्पुरा ।
719अयमागृहीतकमनीयकङ्कणः 720सखि मूर्तिमानिव महोत्सवः करः ॥ १८० ॥

अत्र विवाहानन्तरमेव मालत्याः कपालकुण्डलयापहारान्माधवमालत्योरयं नवानुरागः प्रवास उच्यते ॥

स एव प्रौढानुरागो यथा—

‘त्वामालिख्य प्रणयकुपितां धातुरागैः शिलायामात्मानं ते चरणपतितं यावदिच्छामि कर्तुम् ।
अस्रैस्तावन्मुहुरुपचितैर्दृष्टिरालुप्यते मे क्रूरस्तस्मिन्नपि न सहते संगमं नौ कृतान्तः ॥ १८१ ॥’

अत्र प्राचीनप्रणयप्रसादनाभिरनुरागस्य प्रौढिरवगम्यते ॥

संगतयोरेवान्यतरव्यपाये करुणः । स स्त्रीव्यपाये पुरुषस्य यथा—

‘ध्रुवमस्मि शठः शुचिस्मिते कलितः कैतववत्सलस्त्वया ।
परलोकमसंनिवृत्तये यदनामन्त्र्य721 गतासि मामितः ॥ १८२ ॥’

अत्रेन्दुमतीव्यपायादजस्य दुःखातिशयः करुण उच्यते ॥

स एव पुरुषस्य व्यपाये स्त्रिया यथा—

‘हृदये वससीति मत्प्रियं यदवोचस्तदवैमि कैतवम् ।
उपचारपदं न चेदिदं त्वमनङ्गः कथमक्षता रतिः ॥ १८३ ॥’

अत्रानङ्गविषये रतेः 722शोकप्रकर्षः करुण इत्याख्यायते ॥

  1. ‘स्वयमागृहीत’ इति Dr. R. G. Bhandarkar संपादिते मालतीमाधवे
  2. ‘तव’ क घ । मुद्रिते च ‘विदितः कैतववत्सलस्तव’
  3. ‘यदनापृच्छ्य’ इति मुद्रितरघुवंशे
  4. ‘शोकप्रकर्षात्’ क ख