626

723हीनपात्रादिषु चैतदाभासा भवन्ति । तत्र हीनपात्रेषु पुंसि प्रेमानुरागो यथा—

‘कअलीगब्भसरिच्छे ऊरू दट्ठूण हलिअसोण्हाए ।
उल्ललइ णहरंजणं चंदिलस्स724 सेउल्लिअकरस्स ॥ १८४ ॥’
[कदलीगर्भसदृक्षे ऊरू दृष्ट्वा हालिकस्नुषायाः ।
आर्द्रीभवति नखरञ्जनं नापितस्य स्वेदार्दितकरस्य ॥]

अत्रैव स्त्रियां मानो यथा—

‘पढमघरिणीअ समअं 725उअ पिंडारे726 दरं कुणन्तम्मि ।
णवबहुआइ सरोसं सव्व च्चिअ वच्छला मुक्का ॥ १८५ ॥’
[प्रथमगृहिण्या समकं पश्याभीरे भयं कुर्वति ।
नववध्वा सरोषं सर्वेऽपि च वत्सका मुक्ताः ॥]

तिर्यक्षु पक्षिणि प्रवासो यथा—

‘आपृच्छामि व्यथयति मनो दुर्बला वासरश्रीरे- ह्यालिङ्ग क्षपय रजनीमेकिका चक्रवाकि ।
नान्यासक्तो न खलु कुपितो नानुरागच्युतो वा दैवाधीनः सपदि भवतीमस्वतस्त्रस्त्यजामि ॥ १८६ ॥’

अत्रैव करिणि727 करुणो यथा—

‘नान्तर्वर्तयति ध्वनत्सु जलदेष्वामन्द्रमुद्गर्जितं नासन्नात्सरसः करोति कवलानावर्जितैः शैवलैः ।
दानज्यानिविषण्णमूकमधुपव्यासङ्गदीनाननो नूनं प्राणसमावियोगविधुरः728 स्तम्बेरमस्ताम्यति ॥ १८७ ॥’

अथ संभोगः । तत्र नायकयोः प्रागसंगतयोः संगतवियुक्तयोर्वा

  1. ‘हीनपात्रेषु’ घ
  2. चन्दिलो नापितः, चण्डिल इति तु संस्कृतसममिति देशीनाममालाव्याख्या
  3. ‘तुह’ क, ‘तुअ’ ख
  4. ‘पिण्डारं’ ख
  5. ‘करिणीकरूणो’ क ख
  6. ‘विधुरस्तम्बेरमः’ ग ख घ