627 मिथः समागमे प्रागुत्पन्नस्तदानींतनो वा रत्याख्यः स्थायिभावोऽभिलषणीयालिङ्गनादीनामवाप्तौ सत्यां समुपजायमानैर्हर्ष-धृति-स्मृति-मतिप्रभृतिभिर्व्यभिचारिभावैः संसृज्यमानः, ऋतूद्यानोपगमजलक्रीडापर्वतोपदेशप्रसाधनगृह729मधुपानेन्दूदयादिभिरुद्दीपनविभावैरुद्दीप्यमानः, सविभ्रमभ्रूकटाक्षविक्षेपालापसंभ्रमस्मितादिभिरनुभावैरभिव्यज्यमान ईप्सितमासादयन्, जिहासितं वा जिहानः, प्राप्तप्राप्यप्रकर्षारम्भः संभोगश्रृङ्गाराख्यां लभते । स चतुर्धा—प्रथमानुरागानन्तरः, मानानन्तरः, प्रवासानन्तरः, करुणानन्तर इति ॥

तेषु प्रथमानुरागान्तरो यथा—

‘पाणिग्गहणे च्चिअ730 पव्वईअ णाअं सहीहिं सोहग्गम् ।
पसुवइणा वासुइकंकणम्मि ओसारिए दूरम् ॥ १८८ ॥’
[पाणिग्रहण एव पार्वत्या ज्ञातं सखीभिः सौभाग्यम् ।
पशुपतिना वासुकिकङ्कणेऽपसारिते दूरम् ॥]

मानान्तरो यथा—

‘उव्वहइ दहअगहिआहरोट्ठझिज्जन्तरोसपडिराअम् ।
पाणोसरन्तमइरं 731चसअं व णिअं मुहं बाला ॥ १८९ ॥’
[उद्वहति दयितगृहिताधरौष्ठक्षीयमाणरोषप्रतिरागम् ।
पानापसरन्मदिरं चषकमिव निजं सुखं बाला ॥]

प्रवासानन्तरो यथा—

‘मंगलवलअं जीअं व रक्खिअं जं पउत्थवइआइ732
पत्तपिअदंसणूससिअबाहुलइआइं तं733 भिण्णम् ॥ १९० ॥’
[मङ्गलवलयं जीवितमिव रक्षितं यत्प्रोषितपतिकया ।
प्राप्तप्रियदर्शनोच्छ्वसितबाहुलतिकायां तद्भिन्नम् ॥]
  1. ‘प्रसाधनग्रह'ग घ
  2. ‘पाणिग्गहणे व्विअ पव्वइएॅ’ गाथासप्त॰ ‘पाणिग्गहणव्विअ’ घ
  3. गौडवहोनाम्नि वाक्पतिविरचिते प्राकृतकाव्ये ‘फलियचसयं इमा वयणं’ पाठः, ‘स्फटिकचषकमेषा वदनम्’ इति छाया च
  4. ‘चपज्झिअवइआए’ क ख
  5. ‘तं भीए’ ख