629
करुणेन यथा—
‘न मर्त्यलोकस्त्रिदिवात्प्रहीयते म्रियेत नाग्रे यदि वल्लभो जनः ।
निवृत्तमेव त्रिदिवप्रयोजनं मृतः स चेज्जीवत एव जीवति १९५’
तिर्यगादिषु चैतदाभासा भवन्ति ॥
तेषु सरीसृपमृगयोर्यथा—
‘मधु द्विरेफः कुसुमैकपात्रे पपौ प्रियां स्वामनुवर्तमानः ।
श्रृङ्गेण संस्पर्शनिमीलिताक्षीं मृगीमकण्डूयत कृष्णसारः १९६’
पशुपक्षिणोर्यथा—
‘ददौ सरःपङ्कजरेणुगन्धि गजाय गण्डूषजलं करेणुः ।
अर्धोपभुक्तेन बिसेन जायां संभावयामास रथाङ्गनामा ॥ १९७ ॥’
किंनरेषु यथा—
‘गीतान्तरेषु श्रमवारिलेशैः 740किंचित्समुच्छ्वासितपत्त्रलेखम् ।
पुष्पासवाधूर्णितनेत्रशोभि प्रियामुखं किंपुरुषश्चचुम्बे ॥ १९८ ॥’
तरुषु यथा—
‘पर्याप्तपुष्पस्तबकस्तनीभ्यः स्फुरत्प्रवालोष्ठमनोहराभ्यः741 ।
लतावधूभ्यस्तरवोऽप्यवापुर्विनम्रशाखाभुजबन्धनानि ॥ १९९ ॥’
विप्रलम्भचेष्टासु प्रथमानुरागे स्त्रिया यथा—
‘पेच्छइ 742अलद्धलक्खं दीहं णीससइ सुण्णअं हसइ ।
जइ जंपइ अफुडत्थं तह से हिअअट्ठिअं किं वि ॥ २०० ॥’
[प्रेक्षतेऽलब्धलक्ष्यं दीर्घं निःश्वसिति शून्यं हसति ।
यथा जल्पत्यस्फुटार्थं तथास्या हृदयस्थितं किमपि ॥]