631

पुंसो यथा—

‘मज्झण्णपत्थिअस्स वि गिम्हे पहिअस्स हरइ संतावम् ।
हिअअट्ठिअजाआमुहमिअंकजोण्हाजलप्पवहो751 ॥ २०५ ॥’
[मध्याह्नप्रस्थितस्यापि ग्रीष्मे पथिकस्य हरति संतापम् ।
हृदयस्थितजायामुखमृगाङ्कज्योत्स्नजलप्रवाहः ॥]

करुणे स्त्रिया यथा—

‘णवरि अ पसारिअंगी रअभरिउप्पहपइण्णवेणीबंधा ।
पडिआ उरसंदाणिअमहिअलचक्कलइ752अत्थणी जणअसुआ २०६’
[अनन्तरं च प्रसारिताङ्गी रजोभरितोत्पथप्रकीर्णवेणीबन्धा ।
पतितोरःसंदानितमहीतलचक्रीकृतस्तनी जनकसुता ॥]

पुंसो यथा—

753अंतोहुंतं डज्झइ जाआसुण्णे धरे हलिअउत्तो ।
उक्खित्तणिहाणाइं व रमिअठ्ठाणाइं पेच्छंतो754 ॥ २०७ ॥’
[अन्तरभिमुखं दह्यते जायाशून्ये गृहे हालिकपुत्रः ।
उत्क्षिप्तनिधानानीव रमितस्थानानि पश्यन् ॥]

755एवमन्या अपि ॥

करुणवर्जं स्त्रिया यथा—

‘सौधादुद्विजते त्यजत्युपवनं द्वेष्टि प्रभामैन्दवीं द्वारात्त्रस्यति चित्रकेलिसदसो756 वेषं विषं मन्यते ।
आस्ते केवलमब्जिनीकिसलयप्रस्तारशय्यातले संकल्पोपनतत्व757दाकृतिरसायत्तेन चित्तेन सा ॥ २०८ ॥’
  1. ‘जलप्पवाहे’ क
  2. ‘चक्कूलइ’ क
  3. ‘अन्तोहुत्तं’ गाथासप्त॰
  4. ‘पेक्खन्तो’ क
  5. ‘एवमन्यत्रापि’ क ख
  6. ‘चित्रकेलिसदने’ क
  7. ‘पनमत्त्व’ क