632
स्त्रिया एव प्रथमानुरागवर्जं यथा—
‘तिष्ठः द्वारि भवाङ्गणे व्रज बहिः 758सद्मेति वर्त्मेक्षते
शालामञ्च तमङ्गमञ्च वलभीमञ्चेति वेश्माञ्चति ।
दूतीं संदिश संदिशेति बहुशः संदिश्य सास्ते तथा
तल्पे कल्पमयीव निर्घृण यथा नान्तं निशा गच्छति २०९’
प्रथमानुरागवर्जं पुंसो यथा—
‘रम्यं द्वेष्टिं पुस यथा प्रकृतिभिर्न प्रत्यहं सेव्यते
शय्यो पान्तविवर्तनौर्विंगमयत्युन्निद्र एव क्षपाः ।
दाक्षिण्येन ददाति वाचमुचितामन्तःपुरेभ्यो यदा
गोत्रेषु स्खलितस्तदा भवति स759 व्रीडावनम्रश्चिरम् २१०’
पुंस एव प्रवासकरुणयोर्यथा—
‘सीतावेश्म यतो निरीक्ष्य हरते दृष्टिं झटित्याकुला
मन्योन्यार्पितचञ्चुदत्तकवलैः पारावतैर्दूयते760 ॥
इन्दोर्दूरत एव नश्यति विशत्यन्तर्गृहं दुःखितः
प्रच्छाद्याननमञ्चलेन रजनीप्वस्तत्रपं रोदिति ॥ २११ ॥’
संभोगचेष्टासु पूर्वानुरागान्तरे चुम्बनं यथा—
[आदरप्रणामितौष्ठमघटितनासमसंघटितललाटम् ।
वर्णधृतलिप्तमुख्यास्तस्याः परिचुम्बनं स्मरामः ॥]