632

स्त्रिया एव प्रथमानुरागवर्जं यथा—

‘तिष्ठः द्वारि भवाङ्गणे व्रज बहिः 758सद्मेति वर्त्मेक्षते शालामञ्च तमङ्गमञ्च वलभीमञ्चेति वेश्माञ्चति ।
दूतीं संदिश संदिशेति बहुशः संदिश्य सास्ते तथा तल्पे कल्पमयीव निर्घृण यथा नान्तं निशा गच्छति २०९’

प्रथमानुरागवर्जं पुंसो यथा—

‘रम्यं द्वेष्टिं पुस यथा प्रकृतिभिर्न प्रत्यहं सेव्यते शय्यो पान्तविवर्तनौर्विंगमयत्युन्निद्र एव क्षपाः ।
दाक्षिण्येन ददाति वाचमुचितामन्तःपुरेभ्यो यदा गोत्रेषु स्खलितस्तदा भवति स759 व्रीडावनम्रश्चिरम् २१०’

पुंस एव प्रवासकरुणयोर्यथा—

‘सीतावेश्म यतो निरीक्ष्य हरते दृष्टिं झटित्याकुला मन्योन्यार्पितचञ्चुदत्तकवलैः पारावतैर्दूयते760
इन्दोर्दूरत एव नश्यति विशत्यन्तर्गृहं दुःखितः प्रच्छाद्याननमञ्चलेन रजनीप्वस्तत्रपं रोदिति ॥ २११ ॥’

संभोगचेष्टासु पूर्वानुरागान्तरे चुम्बनं यथा—

‘आअरपणामिओट्ठं अघडिअणासं 761असघडिअणिलाडम् ।
762वण्णग्घअलिप्पमुहीअ तीअ परिउंबंणं मरिमो ॥ २१२ ॥’
[आदरप्रणामितौष्ठमघटितनासमसंघटितललाटम् ।
वर्णधृतलिप्तमुख्यास्तस्याः परिचुम्बनं स्मरामः ॥]
  1. ‘स प्रेति’ ख
  2. ‘च’ क मुद्रितेऽभिज्ञानशाकुन्तले च
  3. ‘भूयते’ क ख
  4. ‘असंघलिअ’ क ‘असंवलिअ’ ख
  5. ‘वएणअलुप्पमुहीए तीए’ क, ‘वणवअलुप्पमुहूए तीए’ ख