633

अत्रैवालिङ्गनं यथा—

‘तावमवणेइ ण तहा चंदणपंको वि कामिमिहुणाणम् ।
जह दूसहे वि763 गिम्हे अण्णोण्णालिंगणसुहेल्ली764 ॥ २१३ ॥’
[तापमपनयति न तथा चन्दनपङ्कोऽपि काभिमिथुनानाम् ।
यथा दुःसहेऽपि ग्रीष्मेऽन्योन्यालिङ्गनसुखम् ॥]

मानानन्तरे चुम्बनं यथा—

‘जह जह से परिउंबइ765 मण्णुभरिआइं’ णिहुवणे दइओ ।
अच्छीइं उवरि उवरि तह तह भिण्णाइं विगलंति ॥ २१४ ॥’
[यथा यथास्याः परिचुम्बति मन्युभरितानि निधुवने दयितः ।
अक्षीण्युपर्युपरि तथा तथा भिन्नानि विगलन्ति ॥]

अत्रैवालिङ्गनं यथा—

766माणदुमपरुसपवणस्स मामि सव्वंगणिब्बुदिअरस्स ।
767उवऊहणस्स भद्दं रइणाडअपुव्वरंगस्स ॥ २१५ ॥’
[मानद्रुमपरुषपवनस्य मातुलानि सर्वाङ्गनिर्वृतिकरस्य ।
उपगूहनस्य भद्रं रतिनाटकपूर्वरङ्गस्य ॥]

प्रवासानन्तरे768 चुम्बनं यथा—

‘केनचिन्मधुरमुल्बणरागं बाष्पतप्तमधिकं विरहेषु ।
ओष्ठपल्लवमपास्य मुहूर्तं सुभ्रुवः सरसमक्षि चुचुम्बे ॥ २१६ ॥’

करुणानन्तरमालिङ्गनं यथा—

‘चन्द्रापीडं सा च जग्राह कण्ठे कण्ठस्थानं जीवितं च प्रपेदे ।
तेनापूर्वां सा समुल्लासलक्ष्मीमिन्दुं स्पृष्ट्वा सिन्धुवेलेव भेजे २१७’
  1. ‘वि’ क ख नास्ति
  2. गाथासप्तशत्यां ‘सुखकेलिः’ इति च्छाया । देशीनाममालायां तु 'सुहे सुहेल्लीअ’ इति, ‘सुहेल्ली सुखम् सुहल्लीत्यन्ये’ इति टीका च
  3. ‘पडिउंबइ’ ख
  4. ‘मानदुम’ घ
  5. गाथासप्त॰ ‘अवऊहणस्स’ इति, ‘अवगूहनस्य’ इति च्छाया च
  6. ‘प्रवासानन्तरं’ क ख