633
अत्रैवालिङ्गनं यथा—
[तापमपनयति न तथा चन्दनपङ्कोऽपि काभिमिथुनानाम् ।
यथा दुःसहेऽपि ग्रीष्मेऽन्योन्यालिङ्गनसुखम् ॥]
मानानन्तरे चुम्बनं यथा—
‘जह जह से परिउंबइ765 मण्णुभरिआइं’ णिहुवणे दइओ ।
अच्छीइं उवरि उवरि तह तह भिण्णाइं विगलंति ॥ २१४ ॥’
[यथा यथास्याः परिचुम्बति मन्युभरितानि निधुवने दयितः ।
अक्षीण्युपर्युपरि तथा तथा भिन्नानि विगलन्ति ॥]
अत्रैवालिङ्गनं यथा—
[मानद्रुमपरुषपवनस्य मातुलानि सर्वाङ्गनिर्वृतिकरस्य ।
उपगूहनस्य भद्रं रतिनाटकपूर्वरङ्गस्य ॥]
प्रवासानन्तरे768 चुम्बनं यथा—
‘केनचिन्मधुरमुल्बणरागं बाष्पतप्तमधिकं विरहेषु ।
ओष्ठपल्लवमपास्य मुहूर्तं सुभ्रुवः सरसमक्षि चुचुम्बे ॥ २१६ ॥’
करुणानन्तरमालिङ्गनं यथा—
‘चन्द्रापीडं सा च जग्राह कण्ठे कण्ठस्थानं जीवितं च प्रपेदे ।
तेनापूर्वां सा समुल्लासलक्ष्मीमिन्दुं स्पृष्ट्वा सिन्धुवेलेव भेजे २१७’