634

769प्रथमानुरागानन्तरे दन्तक्षतं यथा—

‘णासं व सा कवोले अज्ज वि तुह दंतमंडलं बाला ।
उब्भिण्णपुलअबई770वेढपरिगअं रक्खइ वराई ॥ २१८ ॥’
[न्यासमिव सा कपोलेऽद्यापि तव दन्तमण्डलं बाला ।
उद्भिन्नपुलकवृतिवेष्टपरिगतं रक्षति वराकी ॥]

तदेव मानानन्तरे यथा—

‘पवणुव्वेल्लिअसाहुलि771 772ठएसु ठिअदंतमंडले ऊरू ।
773चडुआरअं पइं मा हु पुत्ति 774जणहासिअं कुणसु ॥ २९९ ॥’
[पवनोद्वेल्लितवस्त्राञ्चले स्थगय स्थितदण्डमण्डले ऊरू ।
चटुकारकं पतिं मा खलु पुत्रि जनहसितं कुरु ॥]

प्रवासानन्तरे दन्तक्षतादयो यथा—

‘दंतक्खअं कवोले कअग्गहुव्वेलिओ अ धम्मिल्लो ।
775परिघुम्मिरा अ दिट्ठी पिआगमं साहइ वहूए ॥ २२० ॥’
[दन्तक्षतं कपोले कचग्रहोद्वेल्लितश्च धम्मिल्लः ।
परिघूर्णनशीला च दृष्टिः प्रियागमं साधयति वध्वाः ॥]

776प्रथमानुरागानन्तरे नखक्षतं यथा—

‘अज्जाइ 777णवणहक्खअणिरिक्खणे गरुअजोव्वणुत्तुंगम् ।
पडिमागअणिअणअणुप्पलच्चिअं778 होइ थणवट्ठम् ॥ २२१ ॥’
[आर्याया नवनखक्षतनिरीक्षणे गुरुकयौवनोत्तुङ्गम् ।
प्रतिमागतनिजनयनोत्पलार्चितं भवति स्तनपृष्ठम् ॥]
  1. ‘प्रथमरागानन्तरं दशनक्षतं’ क, ‘प्रथमानुरागानन्तरं दशनक्षतं’ ख
  2. ‘परिवेढ’ क ख
  3. ‘वत्थब्भूभुअसाहापिकिसरिससहीसु साहुली चेअ ।’ इति देशीनाममाला, ‘साहुली वस्त्रं भुर्भुजः शाखा पिकी सदृशः सखी चेति सप्तार्धाः’ इति तट्टका च
  4. ‘थएव सुठठिअ’ क, ‘त्थएवसट्टिअ’ ख
  5. ‘चटुआरअं मा दुपुत्ति’ क, ‘चटुआरअं माइ पुत्ति’ ख, ‘पइं’ इति नास्त्वेव क ख
  6. ‘जणहासअं’ क
  7. ‘पडिघुम्मिरा’ क, ‘पडिघुम्मिरा अ’ ख
  8. ‘प्रथमानुरागानन्तरं’ क
  9. ‘णबणहक्खणिविक्खणे’ ख, ‘णवणहक्खअणिविरक्खणे’ ख
  10. ‘णअणुप्परूं’ क ख