635

अत्रैव पुरुषायितं यथा—

‘दरवेविरोरुजुअलासु मउलिअच्छीसु लुलिअचिउरासु779
780पुरिसाइअसीरिसु कामो पिआसु सज्जाउहो वसइ ॥ २२२ ॥’
[ईषद्वेपनशीलोरुयुगलासु मुकुलिताक्षीषु लुलितचिकुरासु ।
पुरुषायितशीलासु कामः प्रियासु सज्जायुधो वसति ॥]

सर्वं सर्वत्र यथा—

‘पोढमहिलाणं जं सुट्ठु सिक्खिअं तं रए सुहावेइ781
782जं जं असिक्खिअं णववहूणं तं तं 783धिइं देट्ठ ॥ २२३ ॥’
[प्रौढमहिलानां यत्सुष्ठु शिक्षितं तद्रते सुखयति ।
यद्यदशिक्षितं नववधूनां तत्तद्धृतिं ददाति ॥]

विप्रलम्भपरीष्टिष्वभियोगतः प्रेमपरीक्षा यथा—

‘हंहो कण्णुल्लीणा भणामि रे सुहअ किं पि मा जूर784
णिज्जणपारद्धीसु785 तुए कहिं786 वि पुण्णेहिं लद्धोसि ॥ २२४ ॥’
[हंहो कर्णोल्लीना भणामि रे सुभग किमपि मा खिद्यस्व ।
निर्जनरथ्यासु त्वं कथमपि पुण्यैर्लब्धोऽसि ॥]

प्रत्यभियोगतो यथा—

‘गोलाविसमोआरच्छलेण अप्पा उरम्मि से मुक्को ।
अणुअंपाणिद्दोसं तेण वि सा 787गाढमुवऊढा ॥ २२५ ॥’
[गोदावरीविषमावतारच्छलेनात्मा उरसि तस्य मुक्तः ।
अनुकम्पानिर्दोषं तेनापि सा गाढमुपगूढा ॥]
  1. ‘चिहुरासु’ मुद्रितगाथासप्त॰ क
  2. ‘पुरिसाइरीसु’ इति गाथासप्त॰
  3. ‘खए सुहावेदि’ क, ‘रइए सुहावेदि’ ख
  4. ‘जं जेण’ ख
  5. ‘रइं’ क ख
  6. ‘मा झूर’ क, ‘भासुर’ ख
  7. ‘पारद्धीसु’ ख, ‘पाणद्धी रच्छाए’ इति देशीनाममाला
  8. ‘कहं पि’ ख
  9. ‘आढमुवऊढा’ इति गाथासप्त॰