635
अत्रैव पुरुषायितं यथा—
[ईषद्वेपनशीलोरुयुगलासु मुकुलिताक्षीषु लुलितचिकुरासु ।
पुरुषायितशीलासु कामः प्रियासु सज्जायुधो वसति ॥]
सर्वं सर्वत्र यथा—
[प्रौढमहिलानां यत्सुष्ठु शिक्षितं तद्रते सुखयति ।
यद्यदशिक्षितं नववधूनां तत्तद्धृतिं ददाति ॥]
विप्रलम्भपरीष्टिष्वभियोगतः प्रेमपरीक्षा यथा—
[हंहो कर्णोल्लीना भणामि रे सुभग किमपि मा खिद्यस्व ।
निर्जनरथ्यासु त्वं कथमपि पुण्यैर्लब्धोऽसि ॥]
प्रत्यभियोगतो यथा—
‘गोलाविसमोआरच्छलेण अप्पा उरम्मि से मुक्को ।
अणुअंपाणिद्दोसं तेण वि सा 787गाढमुवऊढा ॥ २२५ ॥’
[गोदावरीविषमावतारच्छलेनात्मा उरसि तस्य मुक्तः ।
अनुकम्पानिर्दोषं तेनापि सा गाढमुपगूढा ॥]