637
इङ्गितेन यथा—
[यदि स न वल्लभ एव नामग्रहणेन तस्य सखि किमिति ।
भवति मुखं ते रविकरस्पर्शविकसितमिव तामरसम् ॥]
दूतसंप्रेषणेन यथा—
[स्वेदार्द्रीकृतसर्वाङ्गी नामग्रहणेन तस्य सुभगस्य ।
दूतीं संदिशन्ती तस्यैव गृहाङ्गणं प्राप्ता ॥]
799दूतप्रेश्ने यथा—
[कथं नु गता कथं दृष्टा किं भणिता किं च तेन प्रतिपन्नम् ।
एवमेव न समाप्यते पुनरुक्तं जल्पमानायाः ॥]
लेखविधानेन यथा—
[वेपनशीलस्विंन्नकराङ्गुलिपरिग्रहस्खलितलेखनीमार्गे ।
स्वस्त्येव न समाप्यते प्रियसखि लेखे किं लिखामः ॥]
- ‘वल्लहो व्विअ गोत्तग्गहणेण’ गाथासप्त॰↩
- ‘फंसव्विसदं’ गाथासप्त॰, ‘फंसविसद्दं’ घ↩
- ‘गोत्तग्गहणेन’ गाथासप्त॰↩
- ‘हूरं’ (?) क दूतमिति भवेत्↩
- ‘पट्ठाएन्ती’ गाथासप्त॰, ‘प्रस्थापयन्ती (संदिशन्ती वा)’ इति च्छाया च ।‘संदिट्ठं अप्पाहियम्’ इति धनपालस्य ‘पाइयलच्छी’ इति नाममाला↩
- ‘दूतप्रश्नेन’ क ख↩
- ‘दिट्ठी’ क↩
- ‘पडिवअणं’ क ख↩
- ‘जंप्माणाए’ घ↩
- ‘वेविरिसिण्ण’ क, ‘वेविरिसिस्म’ ख↩
- ‘परिग्गहक्खलिह’ घ, ‘परिग्गहक्खसिअ’ इति मुद्रितगाथासप्त॰↩
- ‘व्विअ’ गाथासप्त॰↩