638

लेखवाचनेन यथा—

‘प्रीत्या स्वस्तिपदं विलोकितवती स्थानं स्तुतं806 तुष्टया पश्चाज्ज्ञातमनुक्रमेण पुरतस्तत्तावकं नामकम् ।
तन्व्या संमदनिर्भरेण मनसा तद्वाचयन्त्या मुहुर्न प्राप्तो घनबाष्पपूरितदृशा लेखेऽपि कण्ठग्रहः ॥ २३४ ॥’

संभोगपरीष्टिषु प्रथमानुरागानन्तरे साध्वसेन पुंसो यथा—

‘लीलाइओ णिअसणे रक्खिउ तं राहिआइ थणवट्ठे ।
हरिणो पढमसमागमसज्झसवसरेहिं807 वेविरो हत्थो ॥ २३५ ॥’
[लीलायितो निवसने रक्षतु त्वां राधिकायाः स्तनपृष्ठे ।
हरिणः प्रथमसमागमसाध्वसप्रसरैर्वेपनशीलो हस्तः ॥]

अत्रैव दोहदेन मुग्धाया यथा—

‘किं किं दे पडिहासइ सहीहिँ इअ पुच्छिआइ808 मुद्धाइँ ।
पढमुल्लअदोहलिणीअ809 810णवरि दइअं गआ दिट्ठी ॥ २३६ ॥’
[किं किं ते प्रतिभासते सखीभिरिति पृष्टाया मुग्धायाः ।
प्रथमोद्गतदोहदिन्याः केवलं दयितं गता दृष्टिः ॥]

अत्रैव प्रगल्भायाः प्रियवाक्यवर्णनेन811 यथा—

‘हुंहुं 812हे भणसु पुणो ण सुअंति करेइ कालविक्खेअं ।
घरिणी हिअअमुहाइं पइणो कण्णे भणंतस्स ॥ २३७ ॥’
[हुंहुं हे भण पुनर्न स्वपन्ति करोति कालविक्षेपम् ।
गृहिणी हृदयसुखानि पत्युः कर्णे भणतः ॥]
  1. ‘श्रुतं’ ख
  2. ‘सज्झसवरेहिं’ क
  3. ‘पुच्छिआएँ मुद्धाए’ गाथासप्त॰ क ख
  4. ‘पढमुग्गअदोहणीए’ इति गाथासप्त॰, ‘यढमुल्लुअहलिदोणीए’ क, ‘पढमुल्लअदोहलिणीए’ ख
  5. ‘णवरं’ गाथासप्त॰
  6. ‘प्रियवाक्यवर्णनं यथा’ क ख
  7. ‘दे भणसु’ क ख