638
लेखवाचनेन यथा—
‘प्रीत्या स्वस्तिपदं विलोकितवती स्थानं स्तुतं806 तुष्टया
पश्चाज्ज्ञातमनुक्रमेण पुरतस्तत्तावकं नामकम् ।
तन्व्या संमदनिर्भरेण मनसा तद्वाचयन्त्या मुहुर्न
प्राप्तो घनबाष्पपूरितदृशा लेखेऽपि कण्ठग्रहः ॥ २३४ ॥’
संभोगपरीष्टिषु प्रथमानुरागानन्तरे साध्वसेन पुंसो यथा—
‘लीलाइओ णिअसणे रक्खिउ तं राहिआइ थणवट्ठे ।
हरिणो पढमसमागमसज्झसवसरेहिं807 वेविरो हत्थो ॥ २३५ ॥’
[लीलायितो निवसने रक्षतु त्वां राधिकायाः स्तनपृष्ठे ।
हरिणः प्रथमसमागमसाध्वसप्रसरैर्वेपनशीलो हस्तः ॥]
अत्रैव दोहदेन मुग्धाया यथा—
[किं किं ते प्रतिभासते सखीभिरिति पृष्टाया मुग्धायाः ।
प्रथमोद्गतदोहदिन्याः केवलं दयितं गता दृष्टिः ॥]
अत्रैव प्रगल्भायाः प्रियवाक्यवर्णनेन811 यथा—
‘हुंहुं 812हे भणसु पुणो ण सुअंति करेइ कालविक्खेअं ।
घरिणी हिअअमुहाइं पइणो कण्णे भणंतस्स ॥ २३७ ॥’
[हुंहुं हे भण पुनर्न स्वपन्ति करोति कालविक्षेपम् ।
गृहिणी हृदयसुखानि पत्युः कर्णे भणतः ॥]