639

मानानन्तरे स्त्रियाः 813कैतवस्मरणेन यथा—

‘भरिमो से सअणपरम्मुहीअ विअलंतमाणपसराए ।
814केअवसुत्तुव्वत्तणथणहरपेल्लणसुहेल्लिम् ॥ २३८ ॥’
[स्मरामस्तस्याः शयनपरामुख्या विगलन्मानप्रसरायाः ।
कैतवसुप्तोद्वर्तनस्तनभरप्रेरणसुखकेलिम् ॥]

स्त्रिया एव सखीवाक्यस्योक्षेपेण यथा—

‘भिउडीअ815 पुलोइस्सं णिव्भच्छिस्सं816 परम्मुही होस्सम् ।
जं भणह तं करिस्सं सहिओ जइ तं ण पेच्छिस्सम् २३९’
[भ्रकुट्या प्रलोकयिष्ये निर्भर्त्स्ये पराङ्मखीभविष्यामि ।
यद्भणत तत्करिष्ये सख्यो यदि तं न प्रेक्षिष्ये ॥]

तस्या एव तदनुष्ठानविघ्नेन यथा—

‘ग्रन्थिमुद्ग्रथयितुं हृदयेशे वाससः स्पृशति मानधनायाः ।
भ्रूयुगेन सपदि प्रतिपेदे रोमभिश्च सममेव विभेदः ॥ २४० ॥’

817प्रवासानन्तरं स्त्रिया यथा—

818अच्छक्कागअहिअए बहुआ 819दइअम्मि गुरुपुरओ ।
820जूरइ विअलंताणं हरिसविसट्टाण821 वलआणम् ॥ २४१ ॥’
[अकस्मादागतहृदये वधूका दयिते गुरुपुरतः ।
क्रुध्यति विगलभ्द्यो हर्षविकसभ्द्यो वलयेभ्यः॥]
  1. ‘कैतवस्वप्ने यथा—’ क ख
  2. ‘कइअवसुत्तुव्वत्तणथणकलस’ गातासप्त॰, ‘कइअवसुत्तुव्वत्तणथणहर’ क, ‘कइअवसुत्तुव्वत्तणत्थानहर’ ख
  3. ‘भिउडीर्हि’ क ख
  4. ‘णिम्भच्छिस्सं’ क
  5. ‘प्रवासानन्तरे’ क ख
  6. ‘अत्थक्का’ क ख
  7. ‘दइअठम्मि जणपुरओ’ क ख
  8. ‘ऊरइ’ क ख
  9. ‘विसट्ठाण’ ख