640
अत्रैव स्त्रीपुंसयोर्यथा—
[रत्वा पदमपि गतो यदोपगूहितुं प्रतिनिवृत्तः ।
अहं प्रोषितपतिकेव तत्क्षणं स प्रवासीव ॥]
सामान्यत एव प्रवाससाध्वसेन स्त्रिया यथा—
भविष्यत्पथिकस्य जाया आपृच्छनजीवधारणरहस्यम् ।
पृच्छन्ती भ्रमति गृहं गृहेण प्रियविरहसहनशीलाः ॥]
827प्रवासविलम्बेन पुंसो यथा—
[एकोऽपि कृष्णसारो न ददाति गन्तु प्रदक्षिणं वलन् ।
किं पुनर्बाष्पाकुलितं लोचनयुगलं मृगाक्ष्याः ॥]
परिहारे स्वेदादिभिः स्त्रिया यथा—
[आर्द्रीभवत्यस्या अङ्गमूरू वेपेते जघनवसनं गलति ।
उत्कम्पते हृदयं प्रियागमे पुष्पवत्याः ॥]
- ‘पअं पि गओ’ इति गाथासप्त॰, ‘पदमपि गतः’ इति च्छाया, ‘पइम्मि गए’ क ख ग↩
- ‘पडिनिउत्तो’ क ख, गाथासप्त॰↩
- ‘पउत्थपइआ व्व’ इति गाथासप्त॰↩
- आपृच्छनं गमनप्रश्न प्रिये याम्यहमित्येवंरूपः । ‘जीव’ क ख↩
- ‘सिहिरिओ’ क, ‘सिहिरिआ’ ख↩
- ‘प्रवासविलम्बेनैव’ क ख↩
- ‘वसन्तो’ ख↩
- ‘पिअअमाए’ गाथासप्त॰, ‘मअच्छीए’ क ख ग घ↩
- ‘कूबलं जघणवसणे’ इति देशीनाममाला↩
- ‘छुछु एले’ क, ‘छुच्छुरा(ए)ले’ ख↩
- ‘पुफुइआए’ क, ‘पुप्फइआइए ख↩