641

करुणानन्तरं पुंसो यथा—

833करस्पर्शारम्भात्पुलकितपृथूरोजकलशे श्रमाम्भो वामार्धे वहति मदनाकूतसुभगम् ।
विभोर्वारंवारं कृत834समधिकोद्धूलनविधे- स्तनौ भस्मस्नानं कथमपि समाप्तं विजयते ॥ २४६ ॥’

विप्रलम्भनिरुक्तिषु प्रथमानुरागे प्रतिश्रुत्यादानं यथा—

835किं भणिओसि ण वालअ गामणिधूआइ836 गुरुअणसमक्खम् ।
837अणिमिसवंकवलंतअआणण838णअणद्धदिट्ठेहिं ॥ २४७ ॥’
[किं भणितोऽसि न बालक ग्रामणीदुहित्रा गुरुजनसमक्षम् ।
अनिमिषवक्रवलदानननयनार्धदृष्टैः ॥]

अत्र 839वक्रेक्षितादिभिः प्रतिश्रुत्यालिङ्गनादयो ह्रीभयादिभिर्न दीयन्ते ॥ माने विसंवादनं यथा—

‘अण्णुअ णाहं कुविआ उवऊहसु840 किं मुहा पसाएमि ।
तुह मण्णुसमुप्पण्णेण मज्झ माणेण841 विण कज्जम् ॥ २४८ ॥’
[अज्ञ नाहं कुपिता उपगूहस्व किं मुधा प्रसादयामि ।
तव मन्युसमुत्पन्नेन मम मानेनापि न कार्यम् ॥]

अत्र मानिनी पूर्वमालिङ्गनादीन्निषिध्य पश्चादयथावत्प्रयच्छति यथा कश्चिदष्टौ 842शतानि प्रदास्यामीति प्रतिश्रुत्याष्टभिर843धिकं शतं प्रय-

  1. ‘करस्पर्शारम्भोत्पुलकित’ क ख
  2. ‘समयिकोद्धूननविधेः’ क ख
  3. ‘किं ण भणिओसि’ गाथासप्त॰, क ख
  4. ‘गामणिधूआइ’ क ख
  5. ‘अणिमिसमीसीसिवलन्तवअण’ गाथासप्त॰ ‘अनिमिषमीषदीषद्वलद्वदन’ च्छाया च
  6. ‘वअण’ क ख
  7. ‘वक्रेक्षितादिभिः’ ग घ, ‘वक्तेक्षितादिभिः’ ख
  8. ‘उवहूअसु’ क ख, ‘उवहुहसु’ ग
  9. ‘माणेणावि’ ग
  10. ‘अष्टशतम्’ क ख
  11. ‘अष्टाभिः’ क ख