642 च्छति न त्वष्टौ शतानीति । तदेतव्द्यलीक844विप्रियादिभिरालिङ्गनादीनां निराकरणमयथावत्प्रदानत्वाद्विसंवादनमेवोच्यते ॥
प्रवासे कालहरणं यथा—
[एष्यति सोऽपि प्रोषितोऽहं कुपिष्यामि सोऽप्यनुनेष्यति ।
इति कस्यापि फलति मनोरथानां माला प्रियतमे ॥]
अत्रालिङ्गनादीनां व्यक्तैव कालहरणप्रतीतिः ॥
करुणे प्रत्यादानं यथा—
[समसौख्यदुःखपरिवर्धितयोः कालेन रूढप्रेम्णोः ।
मिथुनयोर्म्रियते यत्तत्खलु जीवतीतरन्मृतं भवति ॥]
अत्र—
‘सुहृदिव प्रकटय्य सुखप्रदः प्रथममेकरसामनुकूलताम् ।
पुनरकाण्डविवर्तनदारुणः 854प्रविशिनष्टि विधिर्मनसो रुजम् २५१’
इत्ययमर्थः संबध्यते । तस्य च प्रत्यादानमेवार्थो भवति ॥
- ‘विप्रयोगादिभिः’ क ख↩
- ‘एहइ’ गाथासप्त॰↩
- ‘वि’ क ख↩
- ‘अहं अ’ गाथासप्त॰ ।‘अहं च’ इति च्छाया च↩
- ‘वि’ क ख नास्ति↩
- ‘इअफलइ कस्स वि’ क ख ↩
- ‘मणोरहाण’ क ख ग, ‘मनोरहाण’ घ↩
- ‘समवठ्ठिआण’ क, ‘समवट्टिआण’ ख ग, ‘समवढ्ढिआण’ घ↩
- ‘रूढपेम्माण’ क घ↩
- ‘भिहुणाण’ घ↩
- Dr. R. G. Bhandarkar संपादिते मालतीमाधवे ‘विधिरहो विशिनष्टि मनोरुजम्’ इत्यपि पाठः↩