642 च्छति न त्वष्टौ शतानीति । तदेतव्द्यलीक844विप्रियादिभिरालिङ्गनादीनां निराकरणमयथावत्प्रदानत्वाद्विसंवादनमेवोच्यते ॥

प्रवासे कालहरणं यथा—

845एहिइ सो वि846 पउत्थो 847अहअं कुप्पेज्ज सो वि848 अणुणेज्ज ।
849इअ कस्स वि फलइ 850मणोरहाणँ माला पिअअमम्मि ॥ २४९ ॥’
[एष्यति सोऽपि प्रोषितोऽहं कुपिष्यामि सोऽप्यनुनेष्यति ।
इति कस्यापि फलति मनोरथानां माला प्रियतमे ॥]

अत्रालिङ्गनादीनां व्यक्तैव कालहरणप्रतीतिः ॥

करुणे प्रत्यादानं यथा—

851समसोक्खदुक्खपरिवड्ढिआणँ कालेण रूढपेम्माणं852
853मिहुणाणँ मरइ जं तं खु जिअइ इअरं मुअं होइ ॥ २५० ॥’
[समसौख्यदुःखपरिवर्धितयोः कालेन रूढप्रेम्णोः ।
मिथुनयोर्म्रियते यत्तत्खलु जीवतीतरन्मृतं भवति ॥]

अत्र—

‘सुहृदिव प्रकटय्य सुखप्रदः प्रथममेकरसामनुकूलताम् ।
पुनरकाण्डविवर्तनदारुणः 854प्रविशिनष्टि विधिर्मनसो रुजम् २५१’

इत्ययमर्थः संबध्यते । तस्य च प्रत्यादानमेवार्थो भवति ॥

  1. ‘विप्रयोगादिभिः’ क ख
  2. ‘एहइ’ गाथासप्त॰
  3. ‘वि’ क ख
  4. ‘अहं अ’ गाथासप्त॰ ।‘अहं च’ इति च्छाया च
  5. ‘वि’ क ख नास्ति
  6. ‘इअफलइ कस्स वि’ क ख
  7. ‘मणोरहाण’ क ख ग, ‘मनोरहाण’ घ
  8. ‘समवठ्ठिआण’ क, ‘समवट्टिआण’ ख ग, ‘समवढ्ढिआण’ घ
  9. ‘रूढपेम्माण’ क घ
  10. ‘भिहुणाण’ घ
  11. Dr. R. G. Bhandarkar संपादिते मालतीमाधवे ‘विधिरहो विशिनष्टि मनोरुजम्’ इत्यपि पाठः