643

प्रथमानुरागे 855वञ्चनमात्रं विविधं यथा—

‘दिट्ठाइ856 जं ण दिट्ठो857 आलविआए वि जं ण आलत्तो ।
उवआरो जं ण कओ तं चिअ858 कलिअं छइल्लेहिं ॥ २५२ ॥’
[दृष्टया यन्न दृष्ट आलपितया यन्नालापितः ।
उपकारो यन्न कृतस्तदेव कलितं विदग्धैः ॥]

अत्र व्रीडादिभि859रदर्शनादिभिर्वञ्च860नादिभिर्वैविध्यं प्रतीयते ॥

माने विरुद्धं यथा—

‘ण मुअंति 861दीहसासे ण रुअंति 862ण होन्ति विरहकिसिआ ओ ।
धण्णाऒ ताऒ जाणं बहुवल्लह वल्लहो ण तुमम् ॥ २५३ ॥’
[न मुञ्चन्ति दीर्घश्वासान् न रुदन्ति न भवन्ति विरहकृशाः ।
धन्यास्ता यासां बहुवल्लभ वल्लभो न त्वम् ॥]

अत्रेर्ष्यायितादिभिर्वल्लभालिङ्गनादिविरुद्धैर्मानवती वञ्च्यते ॥

प्रवासे व्याविद्धं यथा—

‘कइआ गओ पिओ अज्ज पुत्ति अज्जेण कइ दिणा होंति ।
एक्को एद्दहमेत्ते 863भणिए मोहं गआ कुंवरी864 ॥ २५४ ॥’
[कदा गतः प्रियोऽद्य पुत्रि अद्येति कति दिनानि भवन्ति ।
एक एतावन्मात्रे भणिते मोहं गता कुमारी ॥]

अत्रैकस्यापि दिवसस्य 865वर्षायमाणतया 866विशेषतो दैर्घ्यं प्रतीयते ॥

  1. ‘वञ्चनं’ क
  2. ‘दिठ्ठाए’ क ख
  3. ‘दिठ्ठा’ ख
  4. ‘विअ’ ग
  5. ‘दर्शनादिभिः’ क ख नास्ति
  6. ‘वञ्चनाभिः’ ख नास्ति
  7. ‘दीहसासं’ गाथासप्त॰
  8. ‘चिरं ण होन्ति किसिआओ’ इति गाथासप्त॰
  9. ‘एद्दहमेत्तो’ क ख, ‘एद्दहमत्ते’ घ
  10. ‘बाला’ क ख
  11. ‘वर्षायमानतया’ क ख
  12. ‘प्रियालिङ्गनादिवञ्चनया’ इत्यधिकं क ख