644

करुणे निषिद्धं यथा—

‘आवाअभअअरं चिअ867 ण होइ दुक्खस्स दारुणं 868णिव्वहणम् ।
णाह जिअन्तीअ मए दिट्ठं सहिअं अ तुह इमं अवसाणम् ॥’
[आपातभयंकरमेव न भवति दुःखस्य दारुणं निर्वहणम् ।
नाथ जीवन्त्या मया दृष्टं सोढं च तवेदमवसानम् ॥]

तदेतद्रामविषये सीतायाश्चिराशंसितसमागमसुखावाप्तिव्यपायरूपं वचनं करुणे निषिध्यते ॥

प्रथमानुरागेण सह रागो यथा—

‘सा महइ तस्स ण्हाउं अणुसोत्ते सोवि से समुव्वहइ ।
थणवट्टभिडणविलुलिअकल्लोलमहग्घिए सलिले ॥ २५६ ॥’
[सा वाञ्छति तस्य स्नातुमनुस्रोतसि सोऽप्यस्याः समुद्वहति ।
स्तनपृष्टमिलनविलुलितकल्लोलमहार्घिते सलिले ॥]

अत्र द्वयोरप्येककालमन्योऽन्यानुरागः प्रतीयते तत्रैका लावण्यादिना रज्यतेऽन्यः स्नेहादिनेति ॥

तत्रैव पश्चाद्यथा—

‘मामि हिअअं व पीअं तेण जुआणेण मज्जमाणाए869
ण्हाणहलिद्दा870कडुअं अणुसोत्तजलं पिअंतेण ॥ २५७ ॥’
[मातुलानि हृदयमेव पीतं तेन यूना मज्जमानायाः ।
स्नानहरिद्राकटुकमनुस्रोतोजलं पिबता ॥]

अत्रैकस्यानुरागं दृष्ट्वा पश्चाद्द्वितीयो रज्यते ॥

  1. ‘विअ’ ख
  2. ‘अवसाणं’ क ख
  3. ‘मज्जमाणीए’ क ख
  4. ‘हलद्दा’ क ख