645

तत्रैवानुरूपो871 यथा—

‘सच्चं जाणइ दट्ठुं सरिसम्मि जणम्मि जुज्जए राओ ।
मरउ ण तुमं भणिस्यं मरणं वि872 सलाहणिज्जं से ॥ २५८ ॥’
[सत्यं जानाति द्रष्टुं सदृशे जने युज्यते रागः ।
म्रियतां न त्वां भणिष्यामि मरणमपि श्लाघनीयमस्याः ॥]

अत्र न केवलं लावण्यादिनैव रज्यते किं तर्ह्यनुरूपविषयिणाभिलाषेणापीति प्रतीयते ॥

तत्रैवानुगतो यथा—

‘गहवइसुएण समअं सच्चं अलिअं व किं विआरेण873
धण्णाइ हलिअकुमारिआइ874 जणम्मि जणवाओ875 ॥ २५९ ॥’
[गृहपतिसुतेन समकं सत्यमलीकं वा किं विचारेण ।
धन्याया हालिककुमारिकाया जने जनवादः ॥]

अत्र यद्यपि सौभाग्यादिप्रसिद्धिकृतसारूप्यं876 न विद्यते तथापि स्त्रिया उत्तमप्रार्थनमगर्हितत्वादनुगतमेव भवति । सोऽयं 877करणसाधनोत्पत्तिपक्षे उक्तः । भावसाधनपक्षे तु सहार्थादिविशिष्टा रतिर्दीप्तिर्वानुरागशब्देनोच्यते । 878प्रथमं चोपजायमानत्वादयं प्रथमानुराग इति 879प्रथते ॥

माने 880मान्यते येनेति यथा—

‘पाअपडणाणँ मुद्धे रहसवलामोडिअ881च्चिअव्वाणम् ।
दंसणमेत्त882पसिज्जिरि चुक्का 883बहुआण सोक्खाणँ ॥ २६० ॥’
  1. ‘अनुरूपं’ क ख
  2. ‘मरणं वि’ गाथासप्त॰, ‘मरणमपि’ घ
  3. ‘विअरेइ’ क ख
  4. ‘उमारिआइ’ क
  5. ‘जणवादे’ घ
  6. ‘आनुरूप्यं’ क ख
  7. ‘करणसाधारणसाधनोत्पत्ति’ क, ‘करुणसाधारण’ ख
  8. ‘सर्वत्र’ इत्यधिकं क ख
  9. ‘प्रथते’ इत्यस्य स्थाने ‘प्रथमतो’ इत्यग्रे ‘संबद्धमास्ते’ क ख
  10. ‘प्रथमतो माने’ क, ‘प्रथमतो मानः मान्यते’ ख
  11. 'बलामोडिचुम्बिअव्वाणं’ गाथासप्त॰, ‘बलात्कारचुम्बितव्यानाम्’ इति च्छाया च, ‘अव्वाण’ ख
  12. ‘पसण्णे’ इति गाथासप्त॰
  13. ‘सुहाणं बहुआणम्’ गाथासप्त॰