646
[पादपतनानां मुग्धे रभसबलात्कृतार्चितव्यानाम् ।
दर्शनमात्रप्रसादनशीले भ्रष्टा बहूनां सौख्यानाम् ॥]

अत्र 'मान पूजायाम्’ इति धातोः 884स्वार्थिकणिजन्ताण्णिचि घञि च मान इति रूपम् । 885स हि प्रेयांसमस्याः पादपतनादिपूजायां प्रयोजयति ॥

यं प्रियत्वेन मन्यते यथा—

‘कारणगहिओ वि मए माणो एमेअ जं समोसरिओ ।
अत्थक्कप्फुल्ल886अंकोल्ल तुज्झ तं मत्थए पडउ ॥ २६१ ॥’
[कारणगृहीतोऽपि मया मान एवमेव यत्समुपसृतः ।
अकस्मात्फुल्लिताङ्कोल्ल तव तन्मस्तके पततु ॥]

अत्र ‘मन ज्ञाने’ इति धातुः । तथा हि मानं प्रियत्वेन मन्यमाना तदपहारिणेऽङ्कोल्लाय कापि मानिनी 887कुप्यति ॥

यः प्रेम मनुते यथा—

‘जत्थ ण उज्जागरओ जत्थ ण ईसाविसूरणं माणम् ।
888सब्भावचाटुअं जत्थ णत्थि णेहो तहिं णत्थि ॥ २६२ ॥’
[यत्र नास्त्युज्जागरको यत्र नेर्ष्याखेदी मानः ।
सद्भावचाटुकं यत्र नास्ति स्नेहस्तत्र नास्ति ॥]

अत्र 'मनु अवबोधने’ इति धातुः । मानेन हि जनः प्रेमास्ति नास्ति वेति बुध्यते889 । तस्य च करणभूतस्यापि प्राधान्यादत्र कर्तृत्वोपचारः । तद्यथा 'प्रज्ञा पश्यति नो चक्षुर्दृष्टिः सारस्वती हि सा ।’ इति ॥

  1. ‘स्वार्थे’ क ख
  2. ‘स मानः’ घ
  3. ‘फुल्लि’ क ख ग
  4. ‘कामिनी’ ख
  5. ‘सम्बा व चाहुअं’ क, ‘सम्बाव बाहुअं’ ख
  6. ‘जनो बुध्यते’ क ख