647

प्रेम मिमीते यथा—

890कुविआ अ सच्चहामा891 समे वि बहुआण णवर माणक्खलणे ।
पाअडिअहिअअसारो पेम्मासंघसरिसो पअट्टइ मण्णू ॥ २६३ ॥’
[कुपिता च सत्यभामा समेऽपि बन्धूनां केवलं मानस्खलने ।
प्रकटितहृदयसारः प्रेमाश्वाससदृशः प्रवर्तते मन्युः ॥]

अत्र ‘माङ् माने’ इति धातोः ‘कृत्यल्युटो बहुलम् ३।३।११३’ इति कर्तरि ल्युट् । ‘कोऽसावनुमान’ इति भाष्यप्रयोगात् । तेन च यद्यपि करणभूतेनैवात्मनि रुक्मिण्यां च प्रियप्रेम्णः परिमाणं सत्यभामा प्रत्याययति तथापि पूर्ववदिहाप्ययं 892पूर्ववत्कर्तृत्वेनोपचर्यते ॥

प्रवासे वसत इत्युपलक्षणेनात्मानमङ्गना न भूषयन्ति893 यथा—

‘साहीणे वि पिअअमे पत्ते वि खणे ण मण्डिओ अप्पा ।
894दुक्खिअपउत्थवइअं सअज्जिअं895 संठवंतीए ॥ २६४ ॥’
[स्वाधीनेऽपि प्रियतमे प्राप्तेऽपि क्षणे न मण्डित आत्मा ।
दुःखितप्रोषितपतिकां प्रतिवेशिनीं संस्थापयन्त्या ॥]

अत्र ‘वस आच्छादने’ इत्यस्य 'प्रस्मरति’ इत्यादिवन्निषेधार्थकप्रपूर्वस्य 896घञि 897प्रवास इति रूपं निरूप्यते ॥

युवानः प्रियासंनिधौ न वसन्ति यथा—

‘विरहाणलो सहिज्जइ आसाबंधेण वल्लहजणस्स898
एक्कग्गामपवासो माए मरणं विसेसेइ ॥ २६५ ॥’
[विरहानलः सह्यत आशाबन्धेन वल्लभजनस्य ।
एकग्रामप्रवासो मातर्मरणं विशेषयति ॥]
  1. ‘ऊविआ’ क
  2. ‘सच्चहासा’ क
  3. ‘पूर्ववत्कर्तृत्वेनोपयुज्यते’ ख
  4. ‘नात्मानमङ्गना भूषयन्ति’ ख
  5. ‘दुग्गअपउत्थवइअं’ गाथासप्त॰, ‘दुर्गतप्रोषितपतिकां’ इति च्छाया च
  6. ‘सअज्झिअं’ गाथासप्त॰
  7. ‘घञि च’ क ख
  8. ‘प्रवास’ ख नास्ति
  9. ‘दुल्लहजणस्य’ क ख