648

अत्र दूरस्थयोरिवान्तिकस्थयोरपि संनिकर्षाभावात्प्रवासो भवति ॥

उत्कण्ठादिभिश्चेतो वासयति यथा—

‘आलोअंत899 दिसाओ ससंत जंभंत900 गंत रोअन्त ।
901मुज्झंत 902पडंत हसंत पहिअ किं ते पउत्थेण ॥ २६६ ॥’
[आलोकयन् दिशः श्वसन् जृम्भमाणो गायन् रुदन् ।
मुह्यन् पतन् हसन् पथिक किं तेन प्रोषितेन ॥]

अत्रोत्कण्ठादिभिर्वासिते903 चेतसि शून्यावलोकनादयोऽनुभावा जायन्ते ॥

प्रमापयति यथा—

‘संजीवणोसहिम्मिव904 सुअस्स905 रक्खइ अणण्णवावारा ।
सासू णवम्भदंसणकंठागअजीविअं सोण्हम् ॥ २६७ ॥’
[संजीवनौषधिमिव सुतस्य रक्षत्यनन्यव्यापारा ।
श्वश्रूर्नवाभ्रदर्शनकण्ठागतजीवितां स्नुषाम् ॥]

अत्र प्रसादं करोतीत्यादिवत्प्रमापणोपक्रमोऽपि प्रमापणमुच्यते ॥

करुणे 906करोतेर्भूतोपादनार्थत्वे कुरुते मूर्च्छां यथा—

907विअलिअविओअविअणं तक्खण908पब्भट्ठराममरणाआसम् ।
जणअतणआइ णवरं लद्धं मुच्छाणिमीलिअच्छीअ सुहं २६८’
[विगलितवियोगवेदनं तत्क्षणप्रभ्रष्टराममरणायासम् ।
जनकतनयया केवलं लब्धं मूर्च्छानिमीलिताक्ष्या सुखम् ॥]

अत्र सीतायाः पतिशोकप्रकर्षेणाभूता909 मूर्च्छोत्पद्यते ॥

  1. ‘आलोअन्ति’ क ख
  2. ‘जम्मन्त’ (?) गाथासप्त॰
  3. ‘मुच्छन्त’ गाथासप्त॰
  4. ‘पडन्त खलन्त’ घ
  5. ‘उत्कण्ठादिनिर्वासिते’ क
  6. ‘संजीवणोसहम्मिव’ गाथासप्त॰
  7. ‘पिअस्स’ क ख
  8. ‘करोतेरनुभूतोपादानार्थत्वे’ क ख, ‘करोतेरभूतोत्पादनार्थत्वे’ घ
  9. ‘विसरिअ विओअदुक्खं’ सेतुबन्धे पाठः, ‘विस्मृतवियोगदुःखं’ इति च्छाया च
  10. ‘पिठभठ्ठ’ सेतुबन्धं, ‘पम्बठ्ठ’ क, ‘पम्हव्व’ ग
  11. ‘प्रकर्षेण भूता’ क