648
अत्र दूरस्थयोरिवान्तिकस्थयोरपि संनिकर्षाभावात्प्रवासो भवति ॥
उत्कण्ठादिभिश्चेतो वासयति यथा—
[आलोकयन् दिशः श्वसन् जृम्भमाणो गायन् रुदन् ।
मुह्यन् पतन् हसन् पथिक किं तेन प्रोषितेन ॥]
अत्रोत्कण्ठादिभिर्वासिते903 चेतसि शून्यावलोकनादयोऽनुभावा जायन्ते ॥
प्रमापयति यथा—
[संजीवनौषधिमिव सुतस्य रक्षत्यनन्यव्यापारा ।
श्वश्रूर्नवाभ्रदर्शनकण्ठागतजीवितां स्नुषाम् ॥]
अत्र प्रसादं करोतीत्यादिवत्प्रमापणोपक्रमोऽपि प्रमापणमुच्यते ॥
करुणे 906करोतेर्भूतोपादनार्थत्वे कुरुते मूर्च्छां यथा—
[विगलितवियोगवेदनं तत्क्षणप्रभ्रष्टराममरणायासम् ।
जनकतनयया केवलं लब्धं मूर्च्छानिमीलिताक्ष्या सुखम् ॥]
अत्र सीतायाः पतिशोकप्रकर्षेणाभूता909 मूर्च्छोत्पद्यते ॥
- ‘आलोअन्ति’ क ख↩
- ‘जम्मन्त’ (?) गाथासप्त॰↩
- ‘मुच्छन्त’ गाथासप्त॰↩
- ‘पडन्त खलन्त’ घ↩
- ‘उत्कण्ठादिनिर्वासिते’ क↩
- ‘संजीवणोसहम्मिव’ गाथासप्त॰↩
- ‘पिअस्स’ क ख↩
- ‘करोतेरनुभूतोपादानार्थत्वे’ क ख, ‘करोतेरभूतोत्पादनार्थत्वे’ घ↩
- ‘विसरिअ विओअदुक्खं’ सेतुबन्धे पाठः, ‘विस्मृतवियोगदुःखं’ इति च्छाया च↩
- ‘पिठभठ्ठ’ सेतुबन्धं, ‘पम्बठ्ठ’ क, ‘पम्हव्व’ ग↩
- ‘प्रकर्षेण भूता’ क↩