अष्टमीचन्द्रकः320 321कुन्दचतुर्थी 322सुवसन्तकः ।
323आन्दोलनचतुर्थ्येकशाल्मली324 मदनोत्सवः325 ॥ ९३ ॥
  1. प्रकीर्णकेषु स्पृहयन्तीव्रतमष्टमीचन्द्रकः. स हि चैत्रचतुर्थीतोऽष्टमचतुर्थ्यामुपादीयमानः कामिनीभिरर्च्यते
  2. यस्यां यवस्त्रस्तरेष्वबला लोलन्ति सा कुन्दचतुर्थी
  3. वसन्तावतारदिवसः सुवसन्तकः
  4. यस्यां स्त्रियो दोलामारोहन्ति सा आन्दोलनचतुर्थी
  5. एकमेव सुकुसुमनिर्भरशाल्मलिवृक्षमाश्रित्य सुनिमीलितकादिभिः खेलतां क्रीडा एकशाल्मली
  6. त्रयोदश्यां कामदेवपूजा मदनोत्सवः